________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
115
सौभाग्यभास्कर-बालातपासहितम् विशेष इति युक्तम् । पद्मे इव नयने यस्या: सा पद्मनयना । पद्मरागाख्यरत्नेनारक्तेन समा तुल्या प्रभा कान्तिर्यस्यास्तथा । पद्मविशेषस्य कोकनदस्य रागेण रक्तिम्ना समेत्यादि वा । 'त्रायस्व कुण्डलिनि कुङ्कमपङ्कताने' इति कल्याणाचार्योक्तेरमृतकुण्डलिनीपरं वेदं नाम ॥ १११ ॥
पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी । ब्रह्माद्या: पञ्चापि वामादिस्वस्वशक्तिविरहेसति कार्याक्षम त्वाद्वामांशेन प्रेताः तैः कल्पिते आसने मञ्चके आसीना । तदुक्तं ज्ञानार्णवे
'पञ्च प्रेतान्महेशान ब्रूहि तेषां तु कारणम् ।
निर्जीवा अविनाशास्ते नित्यरूपाः कथं वद ॥ इत्यादिना देव्या पृष्ट ईश्वर उवाच
'साधु पृष्टं त्वया भद्रे पञ्चप्रेतासनं कथम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ पञ्च प्रेता वरारोहे निश्चला एव ते सदा । ब्रह्मणः परमेशानि कर्तृत्वं सृष्टिरूपकम् ॥ वामा शक्तिस्तु सा ज्ञेया ब्रह्मा प्रेतो न संशयः।
शिवस्य करणं नास्ति शक्तेस्तु करणं यतः ॥ इत्यारभ्य
'सदाशिवो महाप्रेतः केवलो निश्चलः प्रिये ।
शक्त्या विना कृतो देवि कथञ्चिदपि न क्षमः ॥ इत्यन्तम् । ब्रह्मादिसदाशिवान्तानां पञ्चानामपि ब्रह्मकोटावन्तर्भावात्पञ्चब्रह्मणा स्वरूपमस्याः । तदुक्तं त्रिपुरासिद्धान्ते
'निर्विशेषमपि ब्रह्म स्वस्मिन्मायाविलासतः । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥
इत्याख्यावशतः पञ्च ब्रह्मरूपेण संस्थितम् ।' इति । यद्वा । ईशान-तत्पुरुषाघोर-वामदेव-सद्योजाताख्यानि पञ्च ब्रह्माणि । तथा च लैङ्गे– 'क्षेत्रज्ञप्रकृतिबुद्ध्यहङ्कारमनांसि श्रोत्रत्वक्चक्षुर्जिह्वोपस्थानि शब्दादिपञ्चतन्मात्राणि
ब्रह्मविष्णुरुद्रेश्वरसदाशिवाख्याः स्वस्वशक्तिराहित्ये धन॑शेन पञ्चप्रेताः । तैः कल्पिते आमने आसीना । आसीनायै इति || पञ्चब्रह्मपदेन पूर्वोक्ता ब्रह्मादयः । पञ्चब्रह्मणा स्वरूपं अम्याः । स्वरूपिण्यै इति ॥
1. त्वाद्धयंशेन
For Private and Personal Use Only