________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
114
ललितासहस्रनामस्तोत्रम् मध्यं गच्छन्तीति तथा । कुण्डलिन्याः सहस्रारकर्णिकाचन्द्रभेदित्वात् । सायंसन्ध्यावन्दने आयुष्करप्रयोगादौ च चन्द्रमण्डले ध्येयत्वात् । शिवपुराणे देवीप्रति शिववचनम्
अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता ।
अग्नीषोमात्मक विश्वमावाभ्यां समधिष्ठितम् ॥' इति । चन्द्रमण्डलं तु श्रीचक्राभिन्नमिति रहस्यम् ।
चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥ ११० ॥ चारु सुन्दरं रूपं लावण्यं हासश्च यस्याः । 'तवैव मन्दस्मितबिन्दुरिन्दुरित्युक्तेः । परमानन्दप्रद: प्रबोधविशेषो गुरुमुखैकवेद्यो यस्या इति तु लक्षणया कश्चिदूचे । चाळ वृद्धिक्षयरहितायाश्चन्द्रकलायाः सादाख्यायाश्चिद्रूपाया धरा धारयित्री । यद्वा चन्द्रकलाख्या राजकन्या देवीभागवते प्रसिद्धा | तस्याः स्वप्ने कामराजबीजोपासकः सुदर्शनाख्यो राजपुत्र एव त्वया वरणीय इत्यम्बया कथितम् । तेन चारु यथा तथा चन्द्रकलाया: धरा आधारभूतेत्यर्थः । तदुक्तं तत्रैव तृतीयस्कन्धे
'एतस्मिन्समये पुत्री काशिराजस्य सत्तमा ।
नाम्ना शशिकला दिव्या सर्वलक्षणसंयुता ॥' इत्युपक्रम्य
'स्वप्ने तस्याः समागत्य जगदम्बा निशान्तरे । उवाच वचनं चेदं समाश्वास्य सुखं स्थिता । वरं वरय सुश्रोणि मम भक्तं सुदर्शनम् । सर्वकामप्रदं तेऽस्तु वचनान्मम भामिनि ॥' इत्यादि ॥ ११०
चराचरजगन्नाथा चक्रराजनिकेतना। जङ्गमस्थावरात्मकस्य जगतोऽधीश्वरी । त्रैलोक्यमोहनादिनवचक्रराजमेव निकेतनं वासस्थानं यस्याः ।
पार्वती पद्मनयना पद्मरागसमप्रभा ॥ १११ ॥ हिमवत्पर्वतस्य स्त्र्यपत्यत्वात्पार्वती । क्वचिदपवादविषयेऽप्युत्सर्गस्य प्रवृत्तेरिजभाव इत्याहुः । 'प्रदीयतां दाशरथाय मैथिली तिवत्सम्बन्धसामान्यमेवेह विवक्षितं न
चारु सुन्दरं रूपं यस्याः सा । रूपायै इति ॥ तया हास: यस्याः सा । हासायै इति ॥ चारुचन्द्रस्य कला तस्या धरा । धरायै इति || ११० ॥
चराचरस्य स्थावरजङ्गमात्मकस्य जगतो नाथा । नाथायै इति ॥ चक्रराजः श्रीचक्रं तन्निकेतनं स्थानं यस्याः सा । निकेतनायै इति ॥
पर्वतस्य हिमवतो अपत्यं स्त्री । पार्वत्यै इति ॥ पद्मनीव नयने यस्याः । नयनायै इति ॥ पद्मरागाख्येनारक्तरत्नेन समा प्रभा कान्तिर्यस्याः सा । प्रभायै इति ॥ १११ ॥
For Private and Personal Use Only