SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 ललितासहस्रनामस्तोत्रम् इति देवीभागवते । महावासिष्ठेऽपि निर्वाणप्रकरणोत्तरार्धे एकाशीतितमे सर्गे शताधिकैः श्लोकैरत्यद्भुतमतिभयङ्करं नृत्यमुभयोर्निर्वर्योपसंहृतम् 'डिम्ब डिम्बं सुडिम्ब पच पच सहसा झम्यझम्यं प्रझम्यं नृत्यन्त्याः शब्दवाद्यैः स्रजमुरसि शिरःशेखरं तायपक्षैः । पूर्ण रक्तासवानां यममहिषमहाशृङ्गमादाय पाणौ पायाद्वो वन्द्यमानः प्रलयमुदितया भैरवः कालरात्र्या ॥ इति । महाकामेशमहिषी महात्रिपुरसुन्दरी ॥ १०८ ॥ महत: कामस्य परमशिवाभिन्नस्येशस्य भूपस्य महिषी कृताभिषेका पत्नी । त्रयाणां मातृमानमेयानां पुरं नगरं तदात्मिका च सा । महती च सा सुन्दरी चेति तथा ॥ १०८ ॥ चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी । चतुरधिका षष्टिश्चतुःषष्टिस्तावन्त उपचारा भगवता परशुरामेण कल्पसूत्रे गणिताः । अन्येऽप्यष्टौ तन्त्रान्तरे 'शिवपादप्रसूनानां धारणं चात्मरोपणम् । परिवारविसृष्टिश्च गुरुभक्तार्चनं तथा ॥ शैवपुस्तकपूजा च शिवाग्नियजनं ततः । शिवपादोदकादानं साङ्गं प्राणाग्निहोत्रकम् ॥ एते चतुःषष्टियुता उपचारा द्विसप्ततिः । इति । चतुरधिका षष्टिश्चतुःषष्टिस्तत्संख्या उपचारा: पूजाप्रकरणेऽस्माभिरुक्ताः तैराढ्याधिनिनी तदभिन्नधनशीला | चतुःषष्टिकला: शार्ङ्गधरीये कथाकोशे च श्रीधरीये लक्ष्मीपीठिकायां च वैलक्षण्येन गणितास्ता निष्कृष्य लिख्यन्ते-- अष्टादशलिपिबोधस्तल्लेखनशीघ्रवाचने चित्रम् । बहुविधभाषाज्ञानं तत्कविताश्रुतनिगादिताछूतम् ॥ वेदा उपवेदाश्चत्वारः शास्त्राङ्गषट्के द्वे । तन्त्रपुराणस्मृतिकं काव्यालङ्कारनाटकादि द्वे ॥ महाकामेशस्य परशिवस्य महिषी । कृताभिषेका पत्नी । महिष्यै इति ॥ त्रिपुरपदं ऊर्ध्वमध्याधोरूपलोकत्रयस्थ जनपरम् । तेषु सुन्दरी । महती उत्कृष्टा चासौ सुन्दरी चेति सा । सुन्दर्यै इति ॥ १०८ ॥ चतुरधिका षष्टिः तत्संख्याकास्तन्त्रोक्ता ये उपचारा: उपासककृतैस्तै राढ्या युता ! आढ्यायै इति ॥ चतुःषष्टिकलाः गीतादिविज्ञानान्ताः तन्मयी तत्प्रचुरा । मय्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy