SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 108 www.kobatirth.org कालिकापुराणेऽपि ब्रह्मादीनामपि मोहकत्वान्महामाया । तदुक्तं मार्कण्डेयपुराणे'ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ।' ललितासहस्रनामस्तोत्रम् महामाया महासत्त्वा महाशक्तिर्महारतिः ॥ १०५ ॥ 'गर्भान्तज्ञानसम्पन्नं प्रेरितं सूतिमारुतैः । उत्पन्नं ज्ञानरहितं कुरुते या निरन्तरम् ॥ पूर्वातिपूर्वसंघातसंस्कारेण नियोज्य च । आहरादौ ततो मोहममत्वाज्ञानसंशयम् ॥ क्रोधोपरोधलोभेषु क्षिप्त्वा क्षिप्त्वा पुनःपुनः । पश्चात्कामेन योज्याशु चिन्तायुक्तमहर्निशम् ॥ आमोदयुक्तं व्यसनासक्तं जन्तुं करोति या । महामायेति संप्रोक्ता तेन सा जगदीश्वरी ॥ Acharya Shri Kailassagarsuri Gyanmandir इति । यद्वा 'माया दम्भे कृपायां चेति कोशात्कृपाबहुला । सतो भावो बलं गुणः । प्राणिनश्च सत्त्वपदार्थाः । सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोरिति विश्वः । महान्ति सत्त्वानि यस्याः, महती सर्वजगन्निर्वाहकत्वादिरूपा विस्तृता विविधा च शक्तिः सामर्थ्यं यस्याः सा । 'शक्तिर्बले च सामर्थ्ये तथा प्रहरणान्तरे' इति यादवः । बलायुधपक्षावपीह योज्यौ । उक्तञ्च विष्णुपुराणे 1 'एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथैतदखिलं जगत || इति । 'तत्राप्यासन्नदूरत्वाद्बहुत्वं स्वल्पता यतः । ज्योत्स्नाभेदोऽस्ति तच्छक्तेस्तद्वन्मैत्रेय विद्यते ॥' इति । महाशक्तिः कुण्डलिनीत्यत्र यदि तृतीयाक्षरस्य तालव्यत्वनिश्चयस्तदात्राकारप्रश्लेषः कर्तव्य इति न पौनरुक्त्यम् । न विद्यते महती शक्तिर्यदपेक्षयेति बहुव्रीहि: । 'न तत्समश्चाभ्यधिकश्च दृश्यत इति श्रुतेः । छलाक्षरसूत्रे परिभाषायां चानयोश्चतुरक्षरत्वोक्तिबलात्क्वचित्पुस्तकेषूपलम्भाच्च महासना-महाशनापदयोरिव भेदमङ्गीकृत्यास्माभिस्तथा व्याख्यातम् । न ह्येतद्विष्णुसहस्रनामादिवत्पुनरुक्तिशता महतामपि मोहिनीत्वान्महामाया । मायायै इति ॥ महत्सत्यं (त्त्वं ) बलं यस्याः सा । सत्त्वायै इति || महत्य इच्छादिशक्तयो यस्याः सा । शक्त्यै इति ॥ महती रतिः प्रीतिः ज्ञानिनां यस्यां सा । रत्यै इति ॥ १०५ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy