________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर - बालातपासहितम्
107
कन्यारूपा वा । कन्यां प्रक्रम्य त्रयोदशे महालक्ष्मी रिति धौम्यैन कथनात् । 'मृड सुखने' इति धातोर्विश्वस्थितिकर्तुः सत्त्वगुणवतः शिवस्य मृड इति संज्ञा । 'जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नम इति महिम्नस्तवात् । तस्य प्रिया ॥ १०४ ॥
महारूपा महापूज्या महापातकनाशिनी ।
महद् रूपचतुष्टयमपेक्ष्योत्कृष्टं रूपं यस्याः । तदुक्तं विष्णुपुराणे'परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम् ॥ प्रधानपुरुषव्यक्तकालानां परमं हि यत् । पश्यन्ति सूरयः शुद्धं तद्विष्णोः परम पदम् ॥ प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः । रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः ॥'
इति । महती च सा पूज्या च महापूज्या । पूज्यानां शिवादीनामपि पूज्येत्यर्थः । तथा च पाद्म-देवीभागवतयोः शिव-ब्रह्म-विष्णु-कुबेर - विश्वदेव- वायु-वसु-वरुणाग्नि-शक्रसूर्य-सोम-ग्रह- राक्षस-पिशाच मातृगणादिभेदेन तत्तत्पूजनीयदेवीमूर्तिभेदो मन्त्रे शैलेन्द्रनीलस्वर्णरौप्यपित्तलकांस्यस्फटिकमाणिक्यमुक्ताफलप्रवालवैडूर्यत्रपुसीसवज्रलोहविकाररूपो विस्तरेण दर्शितः । अत्राग्निशक्रसूर्या माणिक्यमयीमेव प्रतिमां पूजयन्ति । इतरद्यथासंख्यं योजनीयम् । महान्ति ब्रह्महत्यादीनि पातकानि नाशयतीति तथा । तथा च ब्रह्माण्डे
'कृतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा । प्रायश्वित्तं परं प्रोक्तं पराशक्तेः पदस्मृतिः ॥' इति । ब्रह्मोत्तरखण्डेऽपि
'बहुनाsत्र किमुक्तेन श्लोकार्थेन वदाम्यहम् । ब्रह्महत्याशतं वाऽपि शिवपूजा विनाशयेत् ॥'
इति । 'महापातकशब्देन वीरहत्यैव कथ्यत इति त्वर्थरत्नावल्यामुक्तम् । अत्रैव सौभाग्यरत्नाकरादिषु प्रायश्चित्तप्रकरणे पापतारतम्येन पञ्चदश्या जपसंख्यायां तारतम्यवचनान्युपष्टम्भकत्वेन योजनीयानि ।
महदपरिच्छिन्नं रूपं यस्याः सा । रूपायै इति || महती चासौ पूज्या च । पूज्यायै इति ॥ भक्तानां महान्तिब्रह्महत्यादिपातकानि नाशयतीति सा । नाशिन्यै इति ॥
For Private and Personal Use Only