SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 102 ललितासहस्रनामस्तोत्रम् सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ १०२ ॥ सर्वं जानातीति सर्वज्ञा । 'यः सर्वज्ञः सर्ववि 'दिति श्रुतेः । 'सर्वज्ञा सर्ववेत्तृत्वादिति देवीपुराणाच्च । सान्द्रा घना करुणा यस्याः । न तत्समश्चाभ्यधिकश्च दृश्यत इति श्रुतौ दर्शननिषेधेन तद्विषययोरेव निषेधात्समानाधिकाभ्यां वर्जिता ॥ १०२ ॥ सर्वशक्तिमयी सर्वमङ्गला Acharya Shri Kailassagarsuri Gyanmandir अथ सगुणरूपमाश्रित्याह-बालाबगलादिनिखिलशक्त्यभेदात्सर्वशक्तिमयी | ब्रह्ममयं जगदित्यादाविव मयडभेदार्थकोऽपि । सर्वदेवशक्तिसमूहरूपत्वादपि सर्वशक्तिमयी । तदुक्तं पाञ्चरात्र - लक्ष्मीतन्त्रयोरिन्द्रप्रति देव्यैव 'महालक्ष्मीरहं शक्र ! पुनः स्वायम्भुवेऽन्तरे । हिताय सर्वदेवानां जाता महिषमर्दिनी ॥ मदीया: शक्तिलेशा ये तत्तद्देवशरीरगाः । सम्भूय ते ममाभूवन् रूपं परमशोभनम् ॥ आयुधानि च देवानां यानि यानि सुरेश्वर । मच्छक्तयस्तदाकारा आयुधानि तदाऽभवन् ॥' इति । मार्कण्डेयपुराणे त्वयमर्थो विस्तरेण वर्णितो द्रष्टव्यः | 'पदार्थशक्तयो या यास्तास्ता गौरीं विदुर्बुधा' इति लैङ्गादसंकुचितार्थक एव सर्वशब्दो वा । सर्वाणि मङ्गलानि यस्याः । देवीपुराणे तु - 'सर्वाणि हृदयस्थानि मङ्गलानि शुभानि च । इप्सितानि ददातीति तेन सा सर्वमङ्गला ॥ शोभनानि च श्रेष्ठानि या देवी ददते हरे । भक्तानामार्तिहरणी तेनेयं सर्वमङ्गला ॥' इति । इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । द्वितीयशतकेनाभूत् तृतीया धूम्रिका कला ॥ २०० ॥ ॥ इति श्रीमत्पदवाक्येत्यादिभास्कररायकृते ललितासहस्रनामभाष्ये द्वितीयं शतकं नाम तृतीया कला ॥ ३ ॥ सर्वं जानातीति सा । ज्ञायै इति ॥ सान्द्रा घना भक्तेषु करुणा यस्याः सा । करुणायै इति ॥ समानाधिकाभ्यां वर्जिता । सर्वोत्तमत्वात् । वर्जितायै इति ॥ १०२ ॥ सर्वशक्त्यभिन्ना । मय्यै इति ॥ सर्वाणि मङ्गलानि भक्तानां यस्याः सा । मङ्गलायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy