SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 99 सौभाग्यभास्कर-बालातपासहितम् -निर्भवा भवनाशिनी ॥ ९९ ॥ उत्पत्तिराहित्यान्निर्भवा । 'अनादिमत्परं ब्रह्मेति श्रुतेः । भवं संसारं नाशयतीति तथा । तथा च शक्तिरहस्ये 'नवम्यां शुक्लपक्षे तु विधिवच्चण्डिकां नृप । घृतेन स्नापयेद्यस्तु तस्य पुण्यफलं शृणु ॥ दश पूर्वान्दश परानात्मानं च विशेषतः । भवार्णवात्समुद्धृत्य दुर्गालोके महीयते ॥ इति । कोर्मेऽपि सैषा धात्री विधात्री च परमानन्दमिच्छताम् । संसारतापान्निखिलान्निहन्तीश्वरसंज्ञया ॥ इति । देवीभागवतेऽपि 'अहं वै मत्परान्भक्तानैश्वरं योगमाश्रितान् । संसारसागरादस्मादुद्धराम्यचिरेण तु ॥ इति भगवतीवाक्यम् । यद्वा । भवनाशिनीतटं नृसिंहमगमदिति बृहज्जाबालोपनिषत् प्रसिद्धनदीविशेषरूपा ॥ ९९ ॥ निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी । विकल्पः शून्यविषयकं शब्दजन्यं ज्ञानम् । तथा च योगसूत्रम्-'शब्दमात्रानुपाती वस्तुशून्यो विकल्प' इति । खण्डनखण्डखाद्येऽपि-'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्द: करोति ही ति । फलपरीक्षायां गौतमसूत्रमपि-'बुद्धिसिद्धं तदस दिति । तन्निष्क्रान्ता निर्विकल्पा । 'अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः । तदतिक्रमश्च शब्दजन्यत्वांशे । तेन निर्विषयकनित्यज्ञानरूपेति फलितम् । अथवा विकल्पः प्रकारो न विद्यते यस्यां चरमवृत्तौ तद्रूपेति । यद्वा विरुद्धः कल्पः पक्षो विकल्पस्तदभाववती । स्वविरुद्धपक्षान्तराभावात् । सर्वस्य चाभिन्नत्वान्निर्विशेषेति पर्यवसितोऽर्थः । 'अरूपवदेव हि तत्प्रधानत्वादिति तार्तीयीके ब्रह्ममीमांसाधिकरणे निर्विकल्पैकलिङ्गताया ब्रह्मणः साधि भव उत्पत्तिः स निर्गतो यस्याः सा । भवायै इति || सेवकानां भवं उत्पत्तिं नाशयतीति सा । नाशिन्यै इति ।। ९८॥ विकल्पः सविकल्पं ज्ञानम् । तन्निष्क्रान्ता निर्विकल्पा । कल्पायै इति ॥ निर्गतः आसमन्ताद्वाधः निषेधो यस्या आरोपितस्य हि बाधोनाधिष्ठानस्येति । अस्याः सर्वाधिष्ठानत्वात् । बाधायै इति ॥ निर्गतः मे(भे )दो यस्मात् (स्याः) सा । सर्वात्मत्वात् । भेदायै इति ॥ ने (भे)दं अद्वैतज्ञानप्रदानेन भक्तानां नाशयतीति सा । नाशिन्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy