________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
98
ललितासहस्रनामस्तोत्रम् इत्यादि । देवीभागवतेऽपि
'छित्त्वा भित्त्वा च भूतानि हत्वा सर्वमिदं जगत् । प्रणम्य शिरसा देवीं न स पापैर्विलिप्यते ॥ सर्वावस्थागतो वाऽपि युक्तो वा सर्वपातकैः ।
दुर्गा दृष्ट्वा नरः पूतः प्रयाति परमं पदम् ॥ इत्यादि । ब्रह्माण्डपुराणेऽपि
'वर्णाश्रमविहीनानां पापिष्ठानां नृणामपि ।
यद्रूपध्यानमात्रेण दुष्कृतं सुकृतायते ॥ इति ॥ ९८॥
निष्कोधा क्रोधशमनी निर्लोभा लोभनाशिनी । द्वेष्यस्यैवाभावान्निष्क्रोधा । 'न मे द्वेष्योऽस्ति न प्रिय' इति भगवद्वचनात् । भक्तानामरिषड्वर्गान्तर्गतं क्रोध शमयति नाशयतीति क्रोधशमनी । क्रोधस्य दुष्टत्वमा पस्तम्बेनोक्तम्
'क्रोधयुक्तो यद्यजति यज्जुहोति यदर्चति ।
स तस्य हरते सर्वमामकुम्भो यथोदकम् ॥ इति । अत्यन्तमौदार्यान्निर्लोभा । लोभः सर्वगुणान्हन्तीति निन्दितं लोभं भक्तानां नाशयतीति तथा ।
निःसंशया संशयघ्नीतन्त्रराजे गुरुलक्षणकथनदशायाम्-'असंशयः संशयच्छिन्निरपेक्षो गुरुर्मत' इत्युक्त्वा तयोर्विशेषणयोर्लक्षणमुक्तम्-'असंशयस्तत्त्वविच्च तच्छित्तत्प्रतिपादनादिति । तादृशगुर्वभेदादिदं नामद्वयम् । नि:संशया संशयनीति । 'छिद्यन्ते सर्वसंशया' इति श्रुतेः स्मृतेश्च । अथ परिभाषायामेकोनपञ्चाशन्नामानि विभजते
गुणभुविगोमृगशृङ्गे मूलमघाभोगगौरवाभावे ।
स्थूणाङ्गमहान्तो द्विर्भवदूषितवाक्चतुर्विभाऽजोष्टौ ॥ १२ ॥ द्विरिति पञ्चाक्षरं नामद्वयम् । एकस्मिन्नर्धे दशाक्षराणामेव परिशेषात् । चतुरष्टपदे चतुरक्षरकनामधेयचतुष्टयाष्टकपरे । स्पष्टमन्यत् ॥ १२ ॥
निर्गतः क्रोधो यस्याः सा । क्रोधायै इति ॥ सेवकानां क्रोधं शमयतीति सा । शमन्यै इति ॥ निर्गतः लोभः यस्याः सा । लोभायै इति || सेवकानां लोभं नाशयतीति सा । नाशिन्यै इति ॥
निर्गतः संशयः सन्देहो यस्याः सा । संशयायै इति ॥ सेवकानां संशयान् घ्नन्तीति संशयनी । संशयध्यै इति ॥
For Private and Personal Use Only