________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
Acharya Shri Kailassagarsuri Gyanmandir
96
इत्यादि । अवकाशावधिभेदच्छिद्राण्यन्तरपदार्थाः तैर्विरहिता निरन्तरा ।
'अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थे । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥
इत्यमरः । य एतस्मिन्नुदरमन्तरं कुरुतेऽथ तस्य भयं भवति इति श्रुतेः । तेन सजातीयादिभेदत्रयतदेव ब्रह्मेति मतनिरासः ॥ ९६ ॥
निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा ।
सर्वकारणस्य कारणान्तराभावान्निष्कारणा । 'सकारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप' इति श्रुतेः । निःशेषं कारणं प्रथमं यस्यामिति वा । तज्जन्यानन्दवतीत्यर्थः | 'महापद्यवनान्तस्थां कारणानन्दविग्रहामिति वचनात् । कलङ्कः पापं तदभावान्निष्कलङ्का । 'शुद्धमपापविद्धमिति श्रुतेः । उप समीपे आदधाति स्वीयं धर्मम् इत्युपाधिः । 'उपसर्गे घोः किः । स्वीयं लौहित्यं सामीप्यमात्रेण स्फटिके समर्पयज्जपाकुसुममुपाधिः । तद्वच्तितेर्भेदेन भानेऽविद्यैवोपाधिस्तद्रहिता निरुपाधिः । यद्वा । निष्कलङ्कत्वाद्यसाधारणधर्मेषु साध्येषु देव्यास्तादात्म्येन हेतुत्वे निरुपाधित्वं नाम व्याप्यत्वासिद्ध्यभावः सद्धेतुरित्यर्थः । सखण्डोपाधिरखण्डोपाधिश्चेति द्विविधैरपि धर्मैः शून्येति वा । मीमांसाशास्त्रं साख्यशास्त्रञ्च द्विविधं सेश्वरं निरीश्वरं चेति । तदुभयरूपत्वान्निरीश्वरा । सर्वेषामीश्वर्या ईश्वरान्तराभावाद्वा ।
नीरागा रागमथना निर्मदा मदनाशिनी ॥ ९७ ॥
अथान्तःकरणभेदानामात्मत्वनिरासायारिषड्वर्गत्यागस्य साधनत्वबोधनाय च राग इच्छा तदभावादवाप्तसकलकामत्वान्नीरागा । अथवा 'द्वेषप्रतिपक्षभावाद्रसशब्दाच्च राग' इति शाण्डिल्यसूत्रे भक्तेरपि रागपदवाच्यत्वाभिधानात्तन्निष्क्रान्तेत्यर्थः । नीरं जलमगः पर्वतस्तदुभयरूपा वा । भक्तानां वैराग्यदानेन रागं मथ्नातीति रागमथनी | कर्तर्यपि ल्युटो महाभाष्ये नहि कारणयोरेव ल्युडुच्यत्' इत्यादिग्रन्थेन साधितत्वादिह 'रागद्वेषाभिनिवेषाः क्लेशा' इति योगसूत्रोक्तो रागो गृह्यते । मदराहित्यान्निर्मदा । मदं नाशयति मदनं धत्तूरमश्नातीति वा मदनाशिनी ॥ ९७ ॥
निर्गतं कारणं यस्याः सा । कारणायै इति ॥ निर्गतः कलङ्कः अपवादो यस्याः सा । कलङ्कायै इति ॥ निर्गत उपाधिर्गुणाधायको यस्याः सा । उपाधयेति ॥ निर्गत ईश्वरो यस्याः सा स्वस्मिन् सर्वैश्वर्यसत्त्वात् । ईश्वरायै इति ॥
रागः प्रीतिः स निर्गतो यस्याः सा । रागायै इति ॥ भक्तानां विषयगतं रागं मथ्नातीति सा । मन्थ (थ)न्यै [इति] | मदः मोहकारणात्मास्तब्धतारूपः चित्तवृत्तिविशेषः । स निर्गतो यस्याः सा । मदायै इति ॥ सेवकानां मदे ( दं) नाशयतीति सा । नाशिन्यै इति ॥ ९७ ॥
For Private and Personal Use Only