________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम् नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यं मुक्ता यस्या भक्ताः सा । नित्यं यथा तथा मुक्ता वा । नित्यं मुञ्चति मुच्यते वा नित्यमुक्तस्य भावस्तत्ता वा । मोक्षरूपेत्यर्थः । प्रधानस्य मनसश्च निरासायाऽऽह । निर्गता विकाराः सांख्ये प्रसिद्धा महदाद्यास्त्रयोविंशतिर्यस्याः । तदुक्तं सांख्यतत्त्वकौमुद्याम्
'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति । निर्गताः प्रपञ्चाः क्षित्यादिसञ्चयप्रसारणविस्तारा यस्याः सा निष्प्रपञ्चा । 'प्रपञ्चः सञ्चये प्रोक्तो विस्तारे च प्रतारण' इति विश्वः । 'प्रपञ्चोपशमं शिवमद्वैतं चतुर्थ मन्यन्त' इति श्रुतेः । शरीराश्रितं ब्रह्मेति चार्वाकमतं निरस्तमिति । सर्वाश्रयस्याश्रयान्तरायोगान्निराश्रया । 'विश्वं प्रतिष्ठितं यस्यां तस्याः कुत्र प्रतिष्ठितिरिति वचनात् ।
___नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ९६ ॥ कालत्रयेऽपि मालिन्याभावान्नित्यशुद्धा । 'अस्पर्शश्च महाशुचिरिति श्रुतेः । 'अत्यन्तमलिनो देहो देही चात्यन्तनिर्मल' इति स्मृतेश्च । 'नहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते' इति श्रुतिमभिसन्धायाह । नित्यबुद्धा चिद्रूपा । शुद्धबुद्धौ जिनविशेषौ तौ नित्यौ यस्याः प्रसादादिति वा । षट्दर्शनपूजायां जैनदर्शनोपास्यत्वेनापि देव्याः पूजादर्शनात् तदुपास्यतारानामकदेवीरूपेति यावत् । निर्गतं अवा गर्यमाविद्यकविकारजातं यस्याः । 'निरवद्यं निरञ्जनम्' इति श्रुतेः । अवद्यान्नरकान्निर्गता यत्प्रसादादिति वा । तथा च कूर्मपुराणे
'तस्मादहर्निशं देवीं संस्मरेत्पुरुषो यदि ।
न यात्यवद्यं नरकं संक्षीणाशेषपातकः ॥ इति । लिङ्गपुराणेऽपि
'मायान्ताश्चैव घोराद्या अष्टाविंशतिकोटयः । नरकाणामवद्यानां पच्यन्ते तासु पापिनः ॥ अनाश्रिता भवानीशं शङ्करं नीललोहितम् ।
नित्यं मुक्ताः भक्ताः यस्याः सा । मुक्तायै इति ॥ निर्गताः विकाराः परिणामादिभावाः यस्याः सा | विकारायै इति ॥ निर्गतः प्रपञ्च: क्षित्यादिरूपः यस्याः सा । प्रपञ्चायै इति ॥ निर्गतः आश्रयः शरणं यस्याः सा | अ[r ]श्रयायै इति ॥
नित्यं शुद्धा: पापरहिताः जना यस्या सा | शुद्धायै इति ॥ नित्यबुद्धाः बुद्धिमन्तः ज्ञानिनः जना यस्या सा | बुद्धायै इति ॥ निर्गतमवद्यं गद्य यस्याः सा । आवद्यायै इति ॥ निर्गतमन्तरं भेदो यस्याः सा । अन्तरायै इति ॥ ९६ ॥
For Private and Personal Use Only