________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
___93 तत्रानात्मन्यात्मताज्ञानस्वरूपाणवमलमात्रेण युक्तो विज्ञानकेवलः, देहारम्भकादृष्टात्मककार्मणमलवान् प्रलयाकल:, भेदबुद्धिजनकमायाख्यमलवान् सकल इति भेदात् । एषूत्तरोत्तरो मल: पूर्वपूर्वव्याप्य इत्यादि निरूपितं सेतुबन्धेऽस्माभिः । तत्र सकलपशुनिरासायाह । निरञ्जना अञ्जनं नाम कालिमा । मायासङ्ग इति यावत् । तमोरूपत्वेनावरणधर्मेण सादृश्यात् । तथा च योगवासिष्ठे
भावाभावे पदार्थानां हर्षामर्षविकारदा ।
मलिना वासना राम सङ्गशब्देन कथ्यते ॥ इति । निर्गतमञ्जनं यस्याः सा निरञ्जना । 'निरवद्यं निरञ्जन मिति श्रुतेः । अविद्यासम्पर्काभाववतीत्यर्थः । मिथ्यारूपाया अविद्यायाः स्वाधिष्ठानेऽभावात् । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वस्यैव मिथ्यात्वात् । यद्वा नितरां रञ्जनं रागो रक्तिमा सन्तोषणं वा यस्याम् ॥ ९४ ॥
निर्लेपा निर्मला नित्या निराकारा निराकुला । प्रलयकालेऽतिव्याप्तिं निरस्यति । कर्मसम्बन्धेन लेपस्तस्मान्निष्काशिता । 'न मां कर्माणि लिम्पन्ति' इति स्मृतेः । यद्वा लेपः कर्मसम्बन्धः स निर्गतो यस्याः ज्ञानेन सा निर्लेपा । तदुक्तं यज्ञवैभवखण्डे
'कर्मभि सकलैरपि लिप्यते ब्रह्मवित्प्रवरश्च न सर्वथा ।
पद्मपत्रमिवाद्भिरहो परब्रह्मवित्प्रवरस्य तु वैभवम् ॥" गीतास्वपि 'लिप्यते न स पापेन पद्मपत्रमिवाम्भसेति । विज्ञानकेवलेऽतिव्याप्तिं परिहरति । निर्मला आणवमलाभाववती, मलस्तदात्मा तदभाववती वा । मुक्तजीवस्तु लक्ष्य एव । नित्यमुक्तेत्यनेन वा तन्निरास: । यद्वा नित्यशुचिनो मालिन्यभ्रमाधायकत्वादविद्यैव मलस्तदभावत्वान्निर्मला | मलस्य मिथ्यात्वात् । तदधिष्ठानं तु न तथेत्याह । नित्या कालत्रयेऽप्यबाध्या । तेन क्षणिकविज्ञानमेवात्मेत्यौ (त्तानि)त्पातिकबाह्यनिरास: । 'अविनाशी वा अरेऽयमात्मेति श्रुतेः । तिथिनित्या कालनित्या मन्त्ररूपा वा । साकारविज्ञानवादिमाध्यमिकनिरासायाह । आकारस्य सगुणरूपस्य कल्पितत्वान्निराकारा । तदुक्तं विष्णुभागवते
'स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो न पुमान्न जन्तुः।
नायं गुणः कर्म न सन्न चासन्निषेधशेषो जयतादशेषः ॥ लेपः कर्मसम्बन्धः स निर्गतो यस्याः सा । लेपायै इति ॥ निर्गतः मल: विकाररूपः दोषो यस्याः सा | मलायै इति ॥ नित्या कालत्रया बाध्या । नित्यायै इति ॥ आकार: अवयवः स निर्गतो यस्याः सा । आकारायै इति । निर्गता आकुला चिन्ता यस्याः सा | आकुलायै इति ।
For Private and Personal Use Only