________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
92
ललितासहस्रनामस्तोत्रम् महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरबकतरोरप्यसुलभः ॥ इति । देवीभागवतेऽपि- 'साध्वीत्यनन्यसामान्यपातिव्रत्येन गीयसे' इति । शरत्कालिकेन चन्द्रेण तुल्यमाननं मुखं यस्याः ।
शान्तोदरी शान्तिमती निराधारा निरञ्जना ॥ ९४ ॥ 'शो तनूकरणे' । शातं कृशम् । 'आदे च उपदेशेऽशिती'त्यात्वम् । उदरं यस्याः सा शातोदरी । शतोदरस्यानन्तगुहस्य हिमवतोऽपत्यं हैमवतीत्यर्थो वा । शान्तिरस्या अस्तीति शान्तिमती । भक्तेष्वौद्धत्याभावात् । आधारान्निष्क्रान्ता मूलाधारादुद्गता । 'निरादयः क्रान्ताद्यर्थे पञ्चम्येति समासः । यद्वा निर्गत आधारः अधिष्ठानान्तरं यस्याः । सर्वजगदधिष्ठानस्य सत्यत्वेनाधारान्तरायोगात् । अथवा निराधाराख्यपूजास्वरूपा । तथा च सूतसंहितायाम्-पूजा शक्तेः परायास्तु द्विविधा सम्प्रकीर्तिते'त्युपक्रम्य बाह्याभ्यन्तरभेदेन द्वैविध्यमुक्त्वा बाह्याया वैदिकतान्त्रिकभेदेन द्वैविध्यं सलक्षणं वर्णयित्वोक्तम्
'पूजा याभ्यन्तरा सापि द्विविधा परिकीर्तिता। साधारा च निराधारा निराधारा महत्तरा ॥ साधारा या तु साधारे निराधारा तु संविदि । आधारे वर्णसंक्लृप्तविग्रहे परमेश्वरीम् ॥ आराधयेदतिप्रीत्या गुरुणोक्तेन वर्मना । या पूजा संविदि प्रोक्ता सा तु तस्यां मनोलयः॥ संविदेव परा शक्तिर्नेतरा परमार्थतः । अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् ॥ आराधयेत्परां शक्तिं प्रपञ्चोल्लासवर्जिताम् । स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम् ॥
पूजेयेदादरेणैव पूजा सा पुरुषार्थदा ।' इति । अथ निराधारपूजाकर्मीभूतसंवित्स्वरूपस्यैदम्पर्येण निषेधमुखेन विधिमुखेन पराभिमतनिरासेन च निर्धारणपूर्वकं तत्प्राप्तिसाधनोपायं तज्जन्यफलस्वरूपञ्च कतिपयैर्नामभिराह निरञ्जनादिभिरष्टभिः श्लोकैः । सन्ति हि त्रिविधाः पशवः ।
___ शातं कृशमुदरं यस्या: सा । उदयॆ इति ॥ शान्तिरस्या अस्तीति शान्तिमती । मत्यै इति ॥ निर्गत आधारः अधिष्ठानं यस्या: स्वस्यैव सर्वाधारत्वात् । आधारायै इति ॥ निर्गतमञ्जनं मालिन्यमविद्यासम्बन्धो यस्याः सा । अञ्जनायै इति ॥ ९४ ॥
For Private and Personal Use Only