________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम् ज्वैतादृशमवयुत्यानुवाद एव । ईदृशो भक्तिपदार्थः प्रियो यस्याः सा । तथा च शिवपुराणे
'कृतकृत्यस्य तृप्तस्य मम किं क्रियते नरैः ।
बहिर्वाऽभ्यन्तरे वाऽपि मया भावो हि गृह्यते ॥ इति । अत्र भावशब्देन बाह्या सेवारूपा चेष्टाऽभ्यन्तरोऽभिप्रायश्च गृह्यते । भक्त्या संराधनेन गम्या प्रत्यक्षा । तथा च श्रुतिः
'पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ् पश्यन्ति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ।' इति । स्मृतिरपि- 'योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनमिति । 'ईश्वरप्रणिधानाद्वेति योगसूत्रेऽप्येवम् । प्रणिधानपदस्य भक्तिपरतया राजमार्तण्डे व्याख्यानात् । [भक्ति ब्रह्मसूत्रमपि-'अपिसंराधने प्रत्यक्षानुमानाभ्या मिति । अव्यक्तमपि ब्रह्म भक्त्या प्रत्यक्षं भवतीति श्रुतिस्मृतिभ्यां तथाऽवगमादिति तदर्थः ।
'भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ इति भगवद्वचनमपि । अत्र प्रवेष्टुमित्यनेन ब्रह्मभावाख्यो मोक्ष उच्यते, सोऽपि भक्त्यैव लभ्यत इत्यर्थः । तेन 'प्रकृते गम्यपदं प्राप्यपरत्वेनापि व्याख्येयम् । 'ब्रह्मसंस्थोऽमृतत्वमेतीति श्रुतौ निष्ठापर्यायभक्तिवाचिना संस्थापदेन तथा प्रतिपादनात् । अतएव भक्तिमीमांसायाम्- 'तत्संस्थस्यामृतत्वोपदेशादिति सूत्रम् । ब्रह्ममीमांसायाम्'तनिष्ठस्य मोक्षोपदेशादिति सूत्रञ्च । नित्यातन्त्रेऽपि भक्तिलक्षणकथनपूर्वकं तस्याखिलपुरुषार्थप्रदत्वमुक्तम्
'उक्तलक्षणसम्पन्ने गुरौ तत्प्रोक्तयोस्तथा । विद्यानुष्ठानयोः स्थैर्यधियः संशयनाशनी ॥ तारकत्वाप्रमत्तत्वे भक्तिरुक्ताखिलार्थदा ।
यया विहीना नियतमिहामुत्र च दुःखिता ॥ इति । अथवा भक्तिर्लक्षणा तया गम्या बोध्या । विशिष्टशक्तिकानां सत्यज्ञानादिपदानां निर्धर्मकब्रह्मवाचकत्वायोगात् । अतएव त्रिशत्यां वक्ष्यते'लक्ष्यार्था लक्षणागम्येति । 'सर्वेषां वैकमन्त्र्यमैतिशायनस्य भक्तिपावनत्वात्सवमानाधिकारो हीति जैमिनिसूत्रे भक्तिपदस्य लक्षणायां प्रयोगः । आस्माकीने शिवस्तवेऽपि
'न मे शक्तिः श्रीमन्महिमपरमाणोरपि नुतौ तथापि त्वद्भक्तिं व्यतनवमवष्टभ्य किमपि । न मञ्चाः क्रोशन्ति प्रवचनमथापि प्रववृते यथा लोके भक्त्या परशिव न शक्त्या स्वगतया' ।
For Private and Personal Use Only