SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 88 ललितासहस्रनामस्तोत्रम् एतान्यक्षराणि नामसंख्याद्योतकानि । अज्राट् । अचो राजः षोडशान्तसंख्यावाचका भवन्ति । युयुत्साः । इकार आदौ तत उकारः । एतद्वयं यस्मादक्षरात्परतस्तदक्षरं साः । अकारेण सहितं तयोर्नाम । यथा किकु इत्यनयोः क इति संज्ञा टिटु इत्यनयोः ट' इति । फीपात्पृडवः । फीकारात्परतः पृकारश्चेत्तद्युगलस्य डकारः संज्ञा । पकारात्परतश्चेत्तद्युगलस्य बकार: संज्ञा । पुटोण् । संपुटीकरणस्य ण् इति संज्ञा । एवञ्च बडणिति सूत्रस्य डकारेण पुटितो बकार इत्यर्थः । तेन डबड इति सिध्यति । ततश्च फीटपिपुपृफीट इति सप्त वर्णा भवन्ति । द्वे नामनी चतुरक्षरे । तत्र प्रथमनाम्न आद्यमक्षरं पवर्गीयम् । तृतीयं नामाष्टाक्षरम् । तदाद्यमक्षरं च पवर्गीयम् । ततो द्वित्रिपञ्चाक्षरे । तदाद्ये पवर्गीये । ततः षष्ठं नामाष्टाक्षरम् । तदाद्यमक्षरं च पवर्गीयम् । ततो द्वे चतुरक्षरे । तयोराद्यं नाम पवर्गीयादिमाक्षरकम् । ततोऽष्टाक्षरमेकं नाम । तदाद्यमक्षरं च पवर्गीयमिति । एवं नव नामानीत्येतावान्सूत्रार्थ इति दिक् | भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा । भक्तिर्द्विविधा - मुख्या गौणी चेति । तत्रेश्वरविषयकोऽनुरागाख्यश्चित्तवृत्तिविशेषो मुख्यभक्तिः । तथा च भक्तिमीमांसासूत्रम् - 'सा परानुरक्तिरीश्वरे' इति । 'अथातो. भक्तिजिज्ञासे'तिसूत्रोपात्ता भक्तिस्तत्पदार्थः तस्याः परेति विशेषणम् । परां मुख्यां भक्तिविशेषमुद्दिश्यानुरक्तिर्लक्षणत्वेन विधीयत इति तदर्थः । अतएव परेति गौणीं व्यावर्तयतीति भाष्यम् । 'गौण्या तु समाधिसिद्धिरिति सूत्रे गौणी भक्तिः सेवारूपा कथिता । तथा च गरुडपुराणे 'भज इत्येष वै धातुः सेवायां परिकीर्तितः । तस्मात्सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी ॥' Acharya Shri Kailassagarsuri Gyanmandir इति । तद्भेदाः स्मरणकीर्तनादयो बहवः । तेन 1 "भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छेऽपि वर्तते । स विप्रेन्द्रो यतिः श्रीमान् स मुनिः स च पण्डितः ॥ इत्यादित्य-गरुडपुराणयोर्वचनम् । 'भक्तिर्नवविधा राजन्' इत्यादि भागवतं वचनम् । 'भक्तिर्दशविधा ज्ञेया पापारण्यदवोपमेति दशविधत्वप्रतिपादकं बृहन्नारदीयवचनमन्य भक्तिर्मुख्यानुरक्तिः सा प्रिया यस्याः सा । प्रियायै इति ॥ भक्त्या निरुक्तया गम्या उपलभ्या | गम्यायै इति ॥ भक्तेरुक्तलक्षणया वश्या पराधीना । वश्यायै इति ॥ भयानि जरामरणादि निमित्तानि अपहन्तीति सा । अपहायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy