SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 87 सौभाग्यभास्कर-बालातपासहितम् इति । अन्यत्रापि 'त्रिविधां भावनां ब्रह्मन् प्रोच्यमानां निबोध मे। एका मद्विषया तत्र द्वितीयाऽव्यक्तसंश्रया ॥ अन्त्या तु सगुणा ब्राह्मी विज्ञेया त्रिगुणा त्रिधा। इति । इदं चेन्द्रद्युम्नप्रति कूर्मावतारस्य भगवतो वचनम् । एतल्लक्षणनिष्कर्षश्च रत्नत्रयपरीक्षायां दीक्षितैः कृतस्तत एवावगन्तव्यः । यद्वा 'आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम् । उन्मन्यन्ते परे स्थानं निष्कलं च त्रिधा स्थितम् ॥ इति । योगिनीहृदयोक्तलक्षणास्तिस्रो भावनाः । ताभिर्गम्या ज्ञेया । भव: संसार एवारण्यमतिगहनत्वात् पुनः पुनः प्ररोहाच्च । तस्य कुठारेव कुठारिका । 'द्वयोः कुठार' इति कोशात् स्त्रीलिङ्गता । तच्छेत्त्रीत्यर्थः । भद्रप्रिया भद्रमूर्तिभक्तसौभाग्यदायिनी ॥ ९२॥ भद्रं मङ्गलं प्रियं यस्याः । भद्रो गजविशेषस्तज्जातीया गजाः प्रिया यस्या इति वा । भद्रा भव्या मूर्तिः स्वरूपं यस्याः । 'ब्रह्म तन्मङ्गलं विदुरिति विष्णुपुराणात् । 'मङ्गलानां च मङ्गल मिति भारताच्च । 'भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिष्वि''त्याग्नेयपुराणोक्ता भगपदार्थाः शोभना यस्यां सा सुभगा ललितैव तस्या भाव: सौभाग्यं तदभेद इति यावत् । यत्तु पद्मपुराणे 'इक्षवस्तरुराजश्च निष्पावा जीरधान्यके । विकारवच्च गोक्षीरं कौसुम्भं कुसुमं तथा ॥ लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते । इति वचने परिगणितं तदपि मङ्गलकार्योपयुक्तत्वाच्छ्रीकरत्वात्सौभाग्यमेव । सुष्ठु भाग्यं नियतिर्यस्य तस्य भावो वा सौभाग्यम् । भक्तेभ्यस्तानि ददातीति तथा || ९२॥ ___ अत्रेदं बोध्यम् । महाशक्तिरित्यारभ्यैतत्पर्यन्तानि नव नामानि बडण् इति छलाक्षरसूत्रेण निर्दिष्टानि । तथाहि वररुचिसङ्केते यवर्गोऽष्टानामिह तु नवानां संज्ञेत्युक्तं 'काज्ञाद्वाः, टयौ चेति सूत्राभ्यां ककारमारभ्य झकारमभिव्याप्य द्वाराणि नव भवन्ति । टवर्गयवर्गावप्येवमिति तदर्थः । पिषुः । पवर्ग इषूणां पञ्चानां संज्ञा । भद्रं मङ्गलं प्रियं यस्याः सा । प्रियायै इति ॥ भद्रा मङ्गला मूर्तिः स्वरूपं यस्याः सा । मूत्य इति । सुष्टुभाग्यं दैवम् । तस्य भावः सौभाग्यम् । भक्तेभ्यः सौभाग्यं ददातीति सा | दायिन्यै इति ॥ ९२ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy