________________
Shri Mahavir Jain Aradhana Kendra
६२
www.kobatirth.org
'न च रत्नमालिकt
नूतनालोकः
स्वसामानाधिकरण्य-स्वप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन भेदविशिष्टत्वम्, व्यतिरेकिधर्ममात्रस्य तथात्वापत्त्या व्यासज्यवृत्तिधर्मानवच्छिन्नभेदप्रतियोगित्वाप्रसिद्धेः । सामान्यधर्मावच्छिन्नाधिकरणताया अतिरिक्ततया द्रव्यं घटभिन्नमिति प्रतीतिसिद्धद्रव्यत्वावच्छिन्नघटभेदनिरूपिताधिकरणताया घटेऽपि सत्त्वात् । स्वसामानाधिकरण्यघटकाधिकरणत्वस्य तद्वयक्तित्वावच्छिन्नत्वेन विशेषणे पुनरननुगमप्रसङ्ग इति तत्राप्युक्तभेद विशिष्टान्यत्वेनानुगमस्य कर्तव्यतया अनवस्थाप्रसङ्गादिति वाच्यम्; व्यासज्यवृत्तिधर्मानवच्छिन्नत्वं पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकता कत्वत्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकता कप्रतियोगिताकभेदरूपं विवक्षितमित्यदोषात् । स च भेदः पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकता को नेति प्रतीतिसाक्षिको बोध्यः । - न चैवमपि पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकता कघटैतदुभय भेदाव्यावृत्तिः, तत्प्रतियोगितावच्छेदकतावच्छेदकताकत्वे घटत्वे च वर्तते । अवच्छेदकताकत्वे स्वरूपसम्बन्धावच्छिन्ना, अन्यत्र तु समवायसम्बन्धावच्छिन्नेति । अवच्छेदकसम्बन्धभेदभिन्नयोस्तयोः प्रत्येक विश्रान्ततया स्वरूपसम्बन्धावच्छिन्नावच्छेदकता कत्वनिष्ठ
आलोकप्रकाशः
Acharya Shri Kailassagarsuri Gyanmandir
।
समूहालम्बनस्य नीत्वकाञ्चनमयत्वपर्वतत्वान्येकत्र त्रयमिति रीत्या अवगाहमानस्य नीलकाञ्चनमयपर्वत इति ज्ञानस्य च दर्शिताश्रयासिद्धिज्ञान प्रतिवध्यस्य व्यावृत्तिरशक्यपरिहारैवेति । वस्तुतस्तु एकमात्रवृत्तिधर्मपर्याप्त्यभावेऽपि पक्षतावच्छेदकतापर्यातीत्यादेः पक्षतावच्छेदकताविशिष्टावच्छेदकता का क्शेष्यतानिरूपकेत्यर्थः । अवच्छेदकतायां वैशिष्ट्यञ्च स्वपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिता कपर्याप्तिप्रतियोगित्व-स्वसजातीयत्वान्यतरसम्बन्धेन । साजात्यश्च स्वाव.च्छेदकावच्छिन्नत्व-निरवच्छिन्नत्वान्यतरवत्त्व-पर्याप्तिप्रतियोगिताशून्यत्वं सामानाधिकरण्यरूपत्रितयवत्वात्वात्मकं बोध्यमिति तन्मतमपि साध्वेव । अननुगमप्रसङ्ग इति । तथा सति व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकधूमाभावनिरूपितपर्वतादिनिष्ठतद्वयक्तित्वावच्छिन्नाधिकरणतामादायातिव्याप्तिरिति भावः। भेदविशिष्टान्यत्वस्यावृत्तिगगनादौ प्रसिद्धत्वादुक्तम् - धर्माप्रसिद्धिरिति । प्रतियोगिताया इति । सम्बन्धघटकप्रतियोगिताया इत्यर्थः । पुनरननुगमप्रसङ्ग इति । तथा च यदि द्वित्वनिष्ठस्य तद्वयक्तित्वस्य ग्रहणम्, तदा व्यासज्यवृत्तित्वं द्वित्वस्यैवेति तदनवच्छिन्ना भवति । त्रित्वाद्यवच्छिन्ना प्रतियोगिता यदि त्रित्वादिनिष्ठस्य तस्य ग्रहणम्, तदा त्रित्वादेरेव तथात्वमिति तदनवच्छिन्ना भवति द्वित्वाद्यवच्छिन्ना प्रतियोगितेति तत्प्रतियोगितामादाय सर्वस्यैव तद्वयक्तित्वस्य भेदविशिष्टत्वाद्भेदविशिष्टान्य धर्मा प्रसिद्धेरिति भावः । अनवस्थाप्रसङ्गादिति । अनवस्था चात्र
For Private And Personal Use Only