________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता वच्छिन्नत्वस्य वा विवक्षणात्तद्वयावृत्ते, वस्तुतस्तु हेत्वधिकरणनिष्ठाधिकरणतायां तव्यक्तित्वावच्छिन्नत्वं न निवेशनीयम् । किन्तु स्वप्रतियोगिवृत्तित्वखसानानाधिकरण्योभयसम्बन्धेन भेदविशिष्टान्यत्वमेव, तेनापि सामान्यधर्मावच्छिन्नाधिकरणताव्यावृत्तिसम्भवात् । यद्वा अभावे हेत्वधिकरणवृत्तित्वं खाश्रयत्व खावच्छेदकत्वोभयसम्बन्धेन हेत्वधिकरणताविशिष्टपर्याप्ताधिकरणतानिरूपिताधेयत्वरूपम् । तद्वयक्तित्वस्य तादात्म्येन तद्वयक्तिरूपतया तद्वयक्तित्वावच्छिन्नाधिकरणताया उभयसम्बन्धेनाश्रयस्तयक्तिरेव, तत्पर्याप्ताधिकरणता न सामान्यधर्मावच्छिन्ना भवितुमर्हतीति तद्वयावृत्तिः। एवञ्च हेत्वधिकरणेत्यत्रापि न सामान्यधर्मावच्छिन्नाधिकरणतामादाय दोष इति तवयावृत्त्यर्थ न विशेषणान्तरदानस्यावश्यकता । एकमात्रवृत्तिधर्मस्य पर्याप्त्यनभ्युपगमे अधि
नूतनालोकः तद्वपक्तित्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितायाः पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकताकत्वत्वावच्छिन्नत्वानपायादिति वाच्यम् ; तत्तदवच्छेदकताव्यक्तेस्तत्प्रतियोगितावच्छेदकतात्वरूपसामान्यधर्मेण पर्याप्तत्वेऽपि तत्तद्वयक्तित्वरूपविशेषधर्मेण पर्याप्तत्वे प्रमाणाभावेनोक्तदोषानवकाशात् । एतेनोक्तभेदव्यावृत्तये पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकताकत्वत्ववृत्तिप्रतियोगिताकत्वमेव विवक्षणीयम्। वृत्तित्वश्च खनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धे - नेति निरस्तम् । विषयितासम्बन्धन पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकताकत्वविशिष्टं नेति प्रतीतिसाक्षिकभेदव्यावृत्त्यर्थं स्वनिरूपितस्वरूपसम्बन्धावच्छिन्नावच्छेदकताकत्वावच्छिन्नप्रतियोगिताकपर्याप्लेरेष सम्बन्धमध्ये प्रवेशनीयतया पूर्वोक्तोभयभेदव्यावृत्तेरिति । लाघवादाह-वस्तुतस्त्विति । . . . इतोऽपि लाघवादाह-यद्वेति । तद्वयक्तिरूपतयेति । तद्वयक्तित्वं तादात्म्येन, सैव
आलोकप्रकाशः तद्वयक्तित्वानुगमकरूपनिष्ठं स्वघटकव्यासज्यवृत्तित्वत्वव्यापकस्वघटितत्वकत्वम् , स्वं भेदविशिष्टान्यत्वम् । तद्धटकव्यासज्यवृत्तित्वे सर्वत्र भेदविशिष्टान्यत्वघटितत्वनियमात् । तस्प्रतियोगितावच्छे. दकतात्वरूपसामान्यधर्मेणेति । सामान्यरूपेण पर्यातिः सिद्धान्तलक्षणगादाधर्यादौ सुस्पष्टा । मूलेभेद विशिष्टान्यत्वमेवेति । तथा च हेत्वधिकरणतावच्छेदकं यद् भेदविशिष्टान्याधिकरणत्वम् , तनिरूपिताधेयत्वस्यैव निवेश इति भावः ।
काशः
For Private And Personal Use Only