________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नेतनालोकटीका-तरप्रकाशटिप्पण्योपहिता
नूतनालोक नन्वेकमात्रवृत्तिधर्मस्य पर्याप्त्यनुयोगितानवच्छेदकत्वे सिद्धान्तलक्षणस्य साध्यतावच्छेदकता यादृशधर्मावच्छिन्ने पर्याप्ता, तादृशधर्मावच्छिन्नानुयोगिताकभेदघटितस्य वह्नयादिसाध्यकेऽव्याप्तिः, साध्यतावच्छेदकताया एकमात्रवृत्तितया पर्याप्त्यसिद्धः एवं स्थलान्तरेष्वपि बहुषु पर्याप्तिप्रवेशनासाङ्गत्यं चेत्यत आह-तव्यक्तित्वावच्छिनत्वस्य वेति। न चाननुगमप्रसङ्गः, स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धेन भेदविशिष्टान्यत्वेनैव तन्निवेशात् । न च सकलधर्माणामपि तद्वयक्तितदन्यव्यक्त्युभयभेदविशिष्टत्वात्तदन्यधर्माप्रसिद्धिः। प्रतियोगितायास्तद्वयक्तित्वावच्छिन्नत्वेन विशेषणे च पुनरननुगमप्रसङ्ग इति वाच्यम् ; प्रतियोगिताया व्यासज्यवृत्तिधर्मानवच्छिनत्वेन विशेषणीयत्वात् । न च व्यासज्यवृत्तिस्वमनुगतं दुर्वचम् । तथाहि न तावदेकमात्रापर्याप्तत्वम्, एकत्वस्य केवलान्वयितया एकेतरपर्याप्तत्वषटितस्य तस्याप्रसिद्धः। नापि
.. आलोकप्रकाशः स्थले नीलपर्वतकाञ्चनमय इति ज्ञानाव्यावृत्तेः । तत्र विशेष्यताक्छेदकत्वावच्छेदकधर्मितावच्छेदकतायाः पक्षतावच्छेदकत्वावच्छेदकधर्मितावच्छेदकवायान नैल्यनिष्ठप्रकारतानिरूपितविशेष्यतानिरूपितायाः पर्वतत्वकाञ्चनमयत्वोभयनिष्ठतया व्याप्यव्यापकमावसम्भवात् । न चैकमात्रवृत्तिधर्मस्य पर्याप्त्यनभ्युपगमे व्यधिकरणधर्मावच्छिन्नाभावस्येव घटाद्यभावस्यापि केवलान्वयित्वापत्तिः, स्वविरोधिनः प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नस्याप्रसिद्धेरिति वाच्यम् , स्वप्रतियोगितावच्छेदकताव्यापकावच्छेदकताकाधेयतानिरूपकत्वस्यैव विरोधित्वोपगमेनोक्ताप्रसिद्धेरनवकाशात् ।
माहुरिति । अत्रेदं विचारणीयम् । गन्धवान् वायुयमित्यादौ गन्धाभाववद्वायुरूपाश्रयासिद्धरसंग्रहः । गन्धवान् वापुरितिवद् प्राणप्रामगुणवान् वायुरित्यस्यापि संग्रहापत्तिः । तत्र विशेष्यतावच्छेदकत्यावच्छिन्नायाः पक्षतावच्छेदकत्यावच्छेदकत्वावच्छेदकीभूतधर्मितावच्छेदकतायाश्च वायुत्वमात्रवृत्तित्वेनोक्तसम्बन्धघटकव्याप्तिभङ्गाभावात् । न च प्रकारतायां न व्याप्यत्वमात्रं निवेश्यते, किन्तु स्वव्याप्यत्व-स्वावच्छेदकावच्छिन्नत्वोभयसम्बन्धेन प्रकारतावैशिष्टयमिति तद्वारणे स्वरूपतो द्रव्यत्वावगाहिद्रव्यकाञ्चनमयपर्वत इत्याद्यनुमितेरसंग्रहापत्तिः, तत्र द्रव्यत्वनिष्ठप्रकारतावच्छेदकाप्रसिद्धः । यद्यपि स्वव्याप्यत्व-स्वसजातीयत्वोभयमेव सम्बन्धः, साजात्यञ्च निरवच्छिन्नत्व-स्त्रावच्छेदकावच्छिन्नत्वान्यतररूपमिति दर्शितसकलदोषवारणमिति विभाव्यते, तदापि नीलकाञ्चनमयपर्वत इत्यादावन्यतरघटकद्वितीयसम्बन्धस्य . नीलः काञ्चनमयः पर्वतश्च वह्निमानिति
For Private And Personal Use Only