________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- 'नच रत्नमालिका
नूतमालोकः वच्छेदकताविशिष्टत्वसामानाधिकरण्यसहितस्वसजातीयत्वान्यतरसम्बन्धेन । वैशिष्टचं च स्वनिरूपितविशेष्यतानिरूपितप्रकारताव्याप्यप्रकारतानिरूपितविशेष्यतावच्छेदकत्वावच्छिमत्वसम्बम्येन । साजात्यश्च धर्मितावच्छेदकावच्छिन्नत्वरूपेणेति । न चैवमपि ह्रदो वह्निमानित्यादी जातित्वादिना ह्रदत्वाद्यवगाह्यनुमितेरव्यावृत्त्याऽसम्भवः । पक्षतावच्छेदकांशेऽन्याप्रकारकत्वनिवेशनं तु किश्चिद्धर्मविशिष्टपक्षतावच्छेदककस्थलासंग्राहकमिति वाच्यम्; स्वनिरूपितावच्छेदकताविशिष्टत्व-स्वनिरूपितावच्छेदकताविशिष्टत्वोभयसम्बन्धस्यैव व्यापकतावच्छेदकसम्बन्धत्वविवक्षणादुक्तानुमितिव्यावृत्तेः। तत्र प्रथमसम्बन्धघटकवैशिष्टयं पूर्वोक्तमेव । द्वितीयसम्बन्धघटकं च तत्वसामानाधिकरण्य-खसजातीयत्वोभयसम्बन्धेन । साजात्यं च खावच्छेदकावच्छिन्नत्व-निरवच्छिन्नत्वान्यतररूपेणेति दिगित्याहुः ।
आलोकप्रकाशः निरूपितविशेष्यतावच्छेदकत्वावच्छिन्नत्वे पर्यवसानमस्य बोध्यम् । ग्याप्येति । न च प्रकारतयोः सामानाधिकरण्यविवक्षयैवोपपत्तौ किमर्थ व्याप्यव्यापकभावघटनेति वाच्यम् १ नीलकाञ्चनमयपर्वतो वहिमानित्यादौ नीलपर्वतकाञ्चनमयो वहिमानित्यादिज्ञानाच्यावृत्तेः । तत्र पर्वतत्वनिष्ठपक्षतावच्छेदकतायां नीलत्वनिष्ठप्रकारतामादाय धर्मितायच्छेदकताविशिष्टत्वसत्वात् । एवञ्च नीलपर्वतकाञ्चनमय इति ज्ञानीयकाञ्चनमयत्वावच्छिन्नविशेष्यतानिरूपितप्रकारता वैल्ये पर्वतत्वे च, पर्वतत्वावच्छिन्नविशेष्यतानिरूपिता तु नैल्य एव, प्रकारताद्वयमपि न काञ्चनमयत्वे, नीलकाञ्चनमयपर्वत इति ज्ञानीया पर्वतत्वनिष्ठधर्मितावच्छेदकत्वावच्छेदिका या तनिष्ठावच्छेदकता, तमिल्पकविशेष्यतानिरूपितप्रकारता नैल्यकाञ्चनमयत्वोभयनिष्ठति पूर्वोपदर्शितप्रकारताशून्ये काञ्चनमयत्वे द्वितीयप्रकारतासत्वात्तस्या न व्याप्यत्वसम्भव इति तज्ज्ञानव्यावृत्तिोंध्या । अत्र व्याप्यत्वघटकंतच्छून्यत्वं तन्निरूपितविशेष्यतानिरूपितप्रकारतात्वावच्छिन्नप्रतियोगिताकं बोध्यम् । अन्यथा नैल्यनिष्ठप्रकारतानिष्ठतव्यक्तित्वावच्छिन्नप्रतियोगिताकाभाववति काञ्चनमयत्वे पर्वतत्वावच्छिन्नविशेष्यतानिरूपितप्रकारतासत्त्वेन व्याप्तिभङ्गानीलकाञ्चनमयपर्वत इति शानस्याप्यसंग्रहापत्तेः । एवं व्याप्यताघटकवृत्तित्वाभावोऽपि वृत्तितानवच्छेदकतादृशप्रकारतात्ववत्वरूपोऽवसेयः । अन्यथा तादृशवृत्तित्वाभाववती नैल्यनिष्टप्रकारताम् , तादृशवृत्तितानवच्छेदकं यन्नैल्यप्रकारतांनिष्ठतद्वयक्तित्वम् , तद्वती तादृशप्रकारताश्चादाय नीलपर्वतकाञ्चनमय इति ज्ञानसंग्रहापत्तिः। न चान्यतरसम्बन्धघटदकधर्मितावच्छेदकतावैशिष्ट्यं स्वव्याप्यावच्छेदकत्वावच्छिन्नत्वमेव लाघवान्निधेश्यतामिति वाच्यम् ; दर्शित
For Private And Personal Use Only