SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तप्रकाशटिप्पण्योपहिता . नूतनालोकः एव तात्पर्येण तत्सङ्गतेः। वैशिष्टयश्च स्वावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकतानिरूपकत्व-स्वावच्छेदकतावि - शिष्टावच्छेदकताकत्वान्यतरसम्बन्धेन । वैशिष्टयन सामानाधिकरण्य-स्वसजातीयत्वोभयसम्बन्धेन । साजात्यं प्रतियोगितासम्बन्धावच्छिन्नपर्याप्त्यभाववत्त्वेन । एकमात्रवृत्तिधर्मावच्छिन्नपक्षकस्थलेऽन्यवरघटकद्वितीयसम्बन्धमादायोपपत्तिः । तत्र सामानाधिकरण्यघटनाटगततद्वयक्तित्वादिपक्षतावच्छेदककस्थले पटगततद्वयक्तित्वाद्यवच्छिन्नविशेष्यताकानुमितिव्यावृत्तिः । हृदो वह्निमानित्यादौ जातिमान् वह्निमानित्याद्यनुमितिव्यावृत्तये स्वावच्छेदकावच्छिन्नत्वनिरवच्छिन्नत्वान्यतरवत्त्वेनापि साजात्यं विवक्षणीयम् । अत्र च प्रतियोगितासम्बन्धेन पर्याप्तिर्नास्तीति प्रतीतिविषयाभावस्य तवयक्तित्वेन प्रवेशान तेन सम्बन्वेन घटपर्याप्त्युभयाभावमादाय दोषः। परे तु पक्षतावच्छेदकत्वादिपर्याप्तिनिवेशस्य पक्षतावच्छेदकत्वादिव्यापकत्वनिवेश एव तात्पर्येण तत्सङ्गतिः। न चैवं सति काञ्चनमयपर्वतो वहिमानित्यत्र काञ्चनमयत्वाभाववत्पर्वतात्मकाश्रयासिद्धयादावव्याप्तिः, पर्वतत्वधर्मितावच्छेदकतापनकाञ्चनमयत्वावच्छिन्नविशेष्यताकानुमितेरपि सामान्यान्तर्गततया तां प्रति तनिश्चयस्याप्रतिबन्धकत्वादिति वाच्यम् ; पक्षतावच्छेदकतात्वव्यापकविशेष्यताकत्वविवक्षणेनैवोक्तानुमितिव्यावृत्तेः, व्यापकता च स्वनिरूपितावच्छेदकताविशिष्टत्वसम्बन्वेन, वैशिष्टयञ्च स्वावच्छेदकीभूतधर्मिता .... आलोकप्रकाशः. निवेशेति । हेत्वाभाससामान्यलक्षणादावित्यादिः । भन्यासिरिति । एकमात्रवृत्तिधर्माणां पर्याप्त्यभ्युपगमपक्षे तु पक्षतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकावच्छिन्नानुयोगिकपर्याप्तत्व निवेशसम्भवान्नाव्याप्तिः। पर्वतः काञ्चनमय इति ज्ञानीयप्रकारताविशेषस्यैव पक्षतावच्छेदकता पर्यापयनुयोगितावच्छेदकावम् , काञ्चनमयः पर्वत इति ज्ञानीयप्रकारताविशेषस्यैव च विशेष्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्वमिति पर्याप्त्यनुयोगिता वच्छेदकयोर्भेदादिति भावः । काञ्चनमयपर्वतो वह्निमानित्यादौ काञ्चनमयत्वधर्मितावच्छेदकताविशिष्टस्यैव पर्वतत्वादेरनुमित्युद्देश्यतारूपपक्षतावच्छेदकत्रम् , पर्वतकाञ्चनमयो यहिमानितिज्ञानीयविशेष्यतावच्छेदकत्वन्तु पर्वतत्वधर्मितावच्छेदकताविशिष्टस्यैव काञ्चनमयत्वादेरिति विशेषं मनसिकृत्याह-पक्षतावच्छेदकतात्वेति । धर्मितावच्छेदकताविशिष्टत्वेति । यद्यनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकत्वावच्छिनत्वं. पक्षतावच्छेदकनिष्ठम् , विशेष्यतावच्छेदकत्वे तत्तनिष्ठप्रकारता For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy