________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
'नच' रत्नमालिका
नूतनालोकः पतिमुपादाय "अत्र इभो द्वाविति प्रतीतिरेव पर्याप्त्याख्यसम्बन्धविशेषसाधकत्वेनाभिप्रेता, न त्वयमेका, अयं घट इति प्रतीती, तयोः समवायविषयकत्वेनाप्युपपत्तेः । तयोः प्रदर्शनन्तु-यदि द्वित्वप्रकारिका सर्वापि प्रतीतिः समवायविषयिणी स्यात् , तदा अयं द्वौ अयं घटौ इत्याद्याकारिकापि स्यादिति बाधकतर्कबोधनार्थम् । चैत्रस्येदं न मैत्रस्य, मैत्रस्येदं न चैत्रस्येत्यत्र चैत्रस्येदं मैत्रस्येदमित्यंशस्येव” इति व्याख्यान सङ्गच्छते । यद्यपि व्याख्यानेनैकत्वसंख्याया एव पर्याप्तिर्निरस्ता, तथापि युक्तेस्तौल्यादेकमात्रवृत्तिधर्मान्तराणामपि सा नास्तीत्याशयः। न चैकमात्रवृत्तरपर्याप्तत्वे हृदो वह्निमानित्यादौ तथाभूतायाः पक्षतावच्छेदकतायाः पर्याप्त्यप्रसिद्धया तत्पर्याप्तिनिवेशासङ्गतिरिति वाच्यम् ; प्रकृतपक्षताविशिष्टविशेष्यताकत्वस्यानुमितौ विवक्षण
आलोकप्रकाशः गृहीत्वेत्यर्थः । व्याख्यानमित्यनेन सम्बध्यते । यदीति। इदमत्र बोध्यम् । तत्तत्पदसमभिव्याहृतभवनार्थकास्धातुभ्यां तत्तत्पदार्थासाधारणधर्मरूपो भावः प्रत्याय्यते । सम्भावनार्थकयदितदाभ्यामुद्देश्यविधेयभावमहिम्ना हेतुहेतुमद्भावापन्नतदारोपविषयताबोधः । आख्याताभ्याञ्च तत्तदन्वितमाश्रयत्वरूपं कर्तृत्वं प्रथमान्तपदायें बोध्यते, अन्ययार्थद्वारापि क्रियान्वितस्वार्थस्याख्यातेन बोधने प्रत्ययानामित्यादिव्युत्पत्तिविरोधविरहात् । अत एव गुरुमते न कलझं भक्षयेदित्यत्र विषसम्पृक्तनाराचहतपशुपक्ष्यन्यतरमांसात्मककलञ्जभक्षणाभावविषयक कार्यमिति बोधः । न्यायमते तु कलअभक्षणं बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभाववदिति, अत्र धात्वर्थाख्यातार्थयोरन्तरा नर्थस्य भानात् । तथा च समवायविषयकत्वप्रकारकारोपविषयत्वाश्रयीभूता द्वित्वप्रकारिका प्रतीतिः प्रयोज्यतासम्बन्धेन ताशविषयताविशिष्टा, या अयं द्वौ इत्याकारकत्वप्रकारकारोपविषयता, तदाश्रय इति बोधः । अत्रारोपत्वेनारोपभानाङ्गीकाराद् हृदादावनाहार्यवह्नयभावप्रमातो धूमभ्रमसहकारेण धूमाभावापत्तिजननेऽपि तत्तात्पर्यकस्य हृदोऽयं यदि निर्वह्निः स्यात्तर्हि निधूमः स्यादिति वाक्यस्य पर्वतादौ महानसीयधूमाहार्यभ्रमावलिप्रमायां सत्यां पर्वतोऽयं यदि महानसीयधूमवान् स्यात्तदा वह्निमान् स्यादिति वाक्ये च न प्रामाण्यापत्तिः । न च भ्रमत्वनिवेशे तेनैव दर्शितप्रयोगापत्तिवारणसम्भवादाहार्यत्वनिवेशनं व्यर्थमिति वाच्यम् ; प्रथमस्थले हृदस्थाने पर्वतस्य द्वितीयस्थले पर्वतस्थाने हृदस्य चापत्त्युद्देश्यत्वे प्रामाण्यापत्तेरपरिहारात् । प्रयोज्यत्वमानेन च भूतले घटपटाहार्यारोपानन्तरं यद्ययं घटवान् स्यात्तदा पटवान् स्यादिति वाक्यस्य न प्रामाण्यापत्तिः । चैत्रस्येदमित्यादि । इयञ्च प्रतिज्ञालक्षणस्था दीधितिः । तत्पर्याप्ति
For Private And Personal Use Only