________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाश टिप्पण्योपबृंहिता
चेत् ? सत्यम् । हेत्वधिकरणीभूतयद्वयक्तिनिरूपितत्वं स्वस्मिन् तद्वयक्तिनिष्ठाधिकरणतानिरूपिता या आधेयता तद्वत्त्वस्य हेत्वधिकरणविशिष्टाधेयतावत्त्वपर्यवसितस्य हेत्वधिकरणनिष्ठया दशाधिकरणता निरूपितत्वाभावः स्वस्य, ताशाधिकरणता निष्ठाधिकरणता त्वावच्छिन्नप्रतियोगिताक निरूपकत्वस्य हेत्वधिकरण निष्ठाधिकरणता विशिष्टत्वपर्यवसितस्य, स्वरूपसम्बन्धावच्छिन्नस्वनि
आधेयता,
रूपिताधिकरणतावद्भिन्नहेत्वधिकरणनिष्ठाधिकरणता निरूपिता या तद्वत्त्वस्य हेत्वधिकरणनिष्ठाधिकर णता विशिष्टाधेयत्वपर्यवसितस्य वा विवक्षणेन सकलदोषोद्धारसम्भवः । प्रथमकल्पे हेत्वधिकरणवैशिष्ट्यं स्वनिरूपितत्वनूतनालोकः
५५
1
धिकरणीभूत साध्याभावस्य पृथिवीत्वात्मनः स्वनिष्ठांधेयत्वाधिकरणत्वेन तस्यापि लक्षणघटकत्वात् । हेत्वधिकरणीभूतेति । यत्समानाधिकरणपदेनेत्यादिः । व्यधिकरणधर्मावच्छिन्नाभावनिष्ठाधेयत्वादिकं (स्वपदेनोपादायातिव्याप्तिरिति सर्वत्र पर्यवसि - तार्थकथनम् । स्वरूपसम्बन्धावच्छिन्नेति । हेत्वधिकरणनिष्ठाधिकरणतासु कालिकसम्बन्धावच्छिन्नस्वाधिकरणत्वसत्त्वादसम्भव इति स्वनिरूपिताधिकरणतायां स्वरूपसम्बन्धावच्छिन्नत्वनिवेशः । अधिकरणतावद्भिन्नेति । स्वनिरूपितवद्भिन्नेति मात्रोपादाने खपदआलोकप्रकाशः
For Private And Personal Use Only
प्रतियोगिता, तत्कं यन्निरूपकत्वमनुयोगितारूपम्, अनुयोगिताप्रतियोगितयोः परस्परं निरूप्य - निरूपकभावात्तस्य च साध्याभावेऽक्षतत्वात् । यदि चाधिकरणत्वनिष्ठाया आधेयनिष्ठनिरूपकत्वप्रतियोगिताया अधिकरणतात्वावच्छिन्नत्वमनुभवसिद्धम्, तदा तादात्म्यत्वानवच्छिन्नत्वस्थानेऽधिकरणतत्वावच्छिन्नत्वमेव निवेशनीयं लाघवादित्यपि बोध्यम् । लक्षणघटकत्वादिति । न च हेत्वधिकरणनिरूपिता त्वधिकरण निष्ठाधिकरणतानिरूपिता च या आधेयता, तद्वत्त्वमेव यत्समाना: धिकरणपदेन विवक्षितमिति न कोऽपि दोष इति वाच्यम्, एवमपि धूमाधिकरणताभिन्नत्वे साध्ये धूमाधिकरणत्व-धूमाधिकरणतानिष्ठाधिकरणतास्यैतदन्यतरत्वद्देता कन्यासः, साध्याभावनिष्ठाधेयतायामपि हेत्वधिकरणपदेन धूमाधिकरणतानिष्ठाधिकरणतामुपादाय हेत्वधिकरणनिरूपितत्वस्य पर्वतमुपादायाधिकरणविधया तन्निष्ठाधिकरणता निरूपितत्वस्य च सत्त्वात् । न च हेत्वधिकरणनिरूपितेत्यत्र हेत्वधिकरणे हेतुनिष्ठाधिकरणताभिन्नत्वविवक्षणान्न हेतुभूतधूमाधि करणतानिष्ठाधिकरणतामादायोक्तदोष इति वाच्यम् एवं सति धूमाधिकरणतानिष्ठाधिकरण ताभिन्नत्वे साध्ये उक्ततावतिव्याप्त्यापत्तेः, व्यभिचारनिरूपकस्य धूमाधिकरणतानिष्ठाधिकरण
तत्र