________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
'नच रत्नमालिका तृतीयः; दर्शितस्थल एव गगननिष्ठाधिकरणताया वृत्तित्वरूपसाध्याभावाधिकरणत्वेनाव्याप्तितादवस्थ्यात्। एवं वह्निमान् धूमादित्यादावण्यव्याप्तश्चेति
नूतनालोकः न च हेत्वधिकरणनिष्ठाधिकरणतानिरूपिताधेयताभिन्नत्वस्य हेत्वधिकरणनिष्ठाधिकरणतानिरूपके विवक्षणानायं दोष इति वाच्यम् ; अवृत्तित्वसाध्यके प्रमेयत्वादिहेतावतिव्याप्तेः। साध्याभावात्मकाधेयत्वमात्रस्य प्रमेयनिष्ठाधिकरणतानिरूपितत्वेन व्यधिकरणधर्मावच्छिन्नसाध्याभावस्यैव लक्षणघटकत्वात् । न च हेत्वधिकरणनिष्ठा या अधिकरणता, तद्विशिष्टत्वमेव यत्समानाधिकरणपदेन विवक्ष्यते। वैशिष्टयञ्च स्वनिरूपकत्व-निरूपितत्वसम्बन्धावच्छिन्नखनिष्ठप्रयोगिताकाभाववत्त्वोभयसम्बन्धेन । तथा चोक्ताव्याप्त्यतिव्याप्त्योरनवकाश इति वाच्यम् ; एवमपि पृथिवीभिन्न गन्धशून्यत्वादित्यादावव्याप्तेः। तत्र हेत्वधिकरणं. साध्याभावोऽपि । तन्निष्ठाधिकरणतायास्तनिष्ठाधिकरणतादात्म्यरूपत्वात्तनिष्ठतादाम्यप्रतियोगित्वस्य च तत्र वृत्तित्वात् । साध्याभावस्य हेत्वधिकरणनिष्ठाधिकरणताया निरूपकत्वस्यानिरूपितत्वस्य च सत्त्वेन लक्षणघटकत्वात् । वह्निमान् धूमादित्यादाविति । किश्चिदवच्छिन्नम् , अधिकरणतात्वात् , धूमाभाववान् वहयभावादित्यादी लक्षणगमनसम्भवानासम्भव इति भावः । न चाधिकरणतानिरूपितत्वस्थानेऽधिकरणतानिरूपकत्वस्य विवक्षणानायं दोष इति वाच्यम् ; एवमपि पृथिवीभिन्नं गन्धशून्यत्वादित्यादावव्याप्तेः । तत्र हेत्व
आलोकप्रकाशः .. निरूपिताधेयताभिन्नत्वस्येति । आधेयतासामान्यभिन्नत्वनिवेश आधेयत्वाभावसाध्यकव्यभिचारिसामान्य एवातिव्याप्तेस्तदविवक्षा । या अधिकरणतेति । अधिकरणतात्वेनाधिकरणत्वानिवेशे धूमाभाववान् वह्नयभाववानित्यादाव्याप्तिः, तत्र साध्यस्यापि हेत्वधिकरणतया हेत्वधिकरणनिष्ठेत्यनेन साध्यनिष्ठप्रतियोगितामादाय साध्याभावस्यापि लक्षणघटकत्वापातादिति तत्त्वेन निवेशः । यदि च वक्ष्यमाणरीत्या सम्बन्धविशेषावच्छिन्नत्वनिवेशेनैव साध्याभावनिष्ठप्रतियोगिताया वारणानोक्तदोष इति विभाव्यते । तदा धूमवत्त्वप्रकारकपमाविशेष्यत्वाभावसाध्यकस्थले दोषो बोध्यः । ___अधिकरणतादात्म्यरूपत्वादिति । तत्तादात्म्यस्य तद्विशेषणरूपत्वात् संयोगितादात्म्यस्य संयोगरूपत्ववदिति भावः । न च हेत्वधिकरणनिष्ठाधिकरणतानिष्ठतादात्म्यत्वानवच्छिन्नप्रतियोगिताकनिरूपकत्वविवक्षणान्नायं दोष इति वाच्यम् ; एवमपि वह्वयधिकरणत्वसाध्यकस्थलेऽव्याप्तेरपरिहारात् । तत्र हेत्वधिकरणनिष्ठाधिकरणता साध्यरूपाधिकरणता, तन्निष्ठा या तादात्म्यत्वानवच्छिन्ना
For Private And Personal Use Only