________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीयावली अथ हेत्वधिकरणनिष्ठत्वं किं हेत्वधिकरणनिरूपिताधेयतारूपम् , किं वा हेत्वधिकरणनिष्ठाधिकरणतानिरूपकत्वरूपम् , उत वा हेत्वधिकरणनिष्ठाधिकरणतानिरूपिताधेयतारूपं विवक्षितम् ? नाद्यः; किश्चिदवच्छिन्नत्वे साध्येऽधिकरणतात्वहेतावव्याप्तः, हेत्वधिकरणीभूता या घटादिनिष्ठावच्छिन्नत्वाभावाधिकरणता, तन्निरूपिताधेयत्वस्य साध्याभावसाधारण्यात् । नापि द्वितीयः, वृत्तित्वाभावे साध्ये शब्दाश्रयत्वादिहेतावव्याप्तः। हेत्वधिकरणनिष्ठा या प्रमेयत्वाद्यधिकरणता, तन्निरूपकत्वस्य आधेयत्वात्मकसाध्याभावेऽपि सत्त्वात् । नापि
नूतमालोकः तनिरूपितैति। अधिकरणताविधयेत्यादिः। साध्याभावसाधारण्यादिति । न च हेत्वधिकरणे साध्याभावनिरूपिताधिकरणनाभिन्नत्वस्य विवक्षणान्नेयमव्याप्तिरिति वाच्यम् ; एवं सत्यधिकरणताभिन्नत्वे साध्येऽधिकरणताभिन्नत्वाभावाधिकरणत्वघटैतदन्यतरत्वादिहेतावतिव्याप्तेः । तत्र व्यभिचारनिरूपकीभूताधिकरणतायाः साध्याभावाधिकरणताभिन्नत्वाभावेन हेत्वधिकरणपदेन साध्याधिकरणघटस्यैवोपादातुं शक्यत्वादिति ध्येयम् । शब्दाश्रयत्वादिति । अनुच्छिद्यमानद्रवत्वाधिकरणत्वादित्यादौ यथाधिकरणत्वपदं समवायेन हेतुत्वस्फोरकम् , तथात्राश्रयत्वपदम् । वक्ष्यमाणरीत्या सम्बन्धविशेषावच्छिन्नत्वनिवेशेऽपि हेत्वधिकरणतामादायैव दोषसंघटनार्थ वा तत् । सत्वादिति । आधाराधेयत्वयोः परस्परं निरूप्यनिरूपकभावसस्वादिति भावः ।
आलोकप्रकाशः .
अधिकरणतासामान्यभिन्नत्वविवक्षणे उक्तस्थले एवान्यातेरपरिहारादुक्तम्-साध्याभावनिरूपितेति । साध्यनिष्ठप्रतियोगिताकाभावनिरूपितेत्यर्थः । तेन न केवलान्वयिसाध्यकाव्याप्तिः। हेत्वधिकरणपदेन घटस्य ग्रहणे च व्यधिकरणधर्मावच्छिन्नसाध्याभावस्यैव लक्षणघटकत्वसम्भव इति सूचयितुमुक्तम्-साध्याधिकरणेति । गगननिष्ठा या शब्दाश्रयत्वाधिकरणतेत्युक्तेराशयं कल्पान्तरानुसरणेन प्रकाशयति-वक्ष्ममाणरीत्येति । साध्याभाववत्तायामित्यादिः । हेश्वधिकरणनिष्ठाधिकरणता
For Private And Personal Use Only