________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मच रस्नमालिका
नूतनालोकः नित्यादिप्रतीतेः समवायनिष्ठरूपादिप्रतियोगिकत्वघटाद्यनुयोगिकत्वयोरेव। तथा गुणो गुणकर्मान्यत्वविशिष्टसत्तावानिति प्रतीत्यभावेन समवाये विशिष्ट सत्ताप्रतियोगिकत्वगुणानुयोगिकत्वयोः सत्त्वेऽपि न तयोरवच्छेद्यावच्छेदकभावः, किन्तु द्रव्यं विशिष्टसत्तावदिति प्रतीतेस्तनिष्ठविशिष्टसत्ताप्रतियोगिकत्वद्रव्यानुयोगिकत्वयोरेवेति गुणादेविशिष्टसत्ताप्रतियोगित्वावच्छेदकनिरूपकताकानुयोगित्वाभावेन न द्रव्यत्वाद्यभावस्य निरुक्तयत्सामानाधिकरण्यमिति । स्पष्टा चेयं रीतिः "वायो रूपसमवायसत्त्वेऽपि रूपाभावात्” इति मुक्तावलीपतिव्याख्यानावसरे मञ्जूषादौ ।
इति प्रथमालोकः॥
आलोकप्रकाशः भानमुपगम्य तदर्भहेतुकायाः तबर्मविधेयिकाया वा अनुमितेः- स्वीकारादिति भावः । तदन्युपगमेनेति । अत्र तादात्म्येनेव व्यापकत्वम् । न तु तदतिरिक्तवृत्त्यनियामकसम्बन्धेन । अत एकोक्तमवयकशिरोमणौ-"तदवृत्तेरतदात्मनश्च तद्धर्मव्यापकत्वायोगात्" इतीति बोध्यम् । मञ्जूषादावित्यादिपदेन हरिरामीयपरिग्रहः ॥
इति प्रथमालोकप्रकाशः॥
For Private And Personal Use Only