________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकटीका - प्रकाशटिप्पण्यो पबृंहिता
तथा च विशिष्टताहेतुकस्थलेऽव्याप्तिर्दुर्वारैव हेतुतावच्छेदकसमवायसम्बन्धेन विशिष्टसत्तासम्बन्धित्वस्य गुणादावक्षतत्वादिति वाच्यम् ; वृत्त्यनियामकसम्बन्धेन व्याप्तेरेवानभ्युपगमेन तच्छरीरे हेत्वधिकरणत्वस्यैव निवेशसम्भवात् ॥' इति प्रथमावली ॥
५१
नूतनालोकः
" किवेदमिदानीमिति प्रतीतिनियामक विशेषणता विशेषेण हेतुतायाम्" इति पङ्किव्याख्यानावसरे- "तेन सम्बन्धेन व्याप्तेरनभ्युपगमसम्भवेन वृत्यादेरपि निवेशनं सम्भवति" इति । न च प्राचां मते वृत्त्यनियामकसम्बन्धेन व्याप्यव्यापकभावानभ्युपगमेऽपि नवीनमते तदभ्युपगमेनाधिकरणत्वस्थाने सम्बन्धित्वमवश्यमेव विवक्षणीयम् । तदुक्तं व्याप्तिसिद्धान्तशिरोमणी - " सामानाधिकरण्यादौ सम्बन्धित्वं निवेशनीयम्, न त्वधिकरणत्वम् । तथा च धर्मिणोऽपि व्याप्यत्वं व्यापकत्वं च निर्वहति” इतीति वाच्यम्, हेतुतावच्छेदकसम्बन्धनिष्ठहेतुतावच्छेदकावच्छिन्नप्रतियोगित्वावच्छेदकं यदनुयोगिकत्वम्, तद्वृत्तित्वस्य हेतुतावच्छेदकसम्बन्धनिष्टहेतुतावच्छेदकावच्छिन्नप्रतियोगिता कत्वा वच्छेद कनि रूपकता का नुयोगिता बत्तित्वपर्यवसन्नस्य यत्समानाधिकरणपदेन तन्मते विवक्षणादुताव्याप्तिविरहात् । तथाहि--यथा वायू रूपवानिति प्रतीत्यभावेन समवाये रूपप्रतियोगिकत्ववाय्वनुयोगिकत्वयोः सत्रेऽपि न तयोरवच्छेद्यावच्छेदकभावः, किन्तु घटो रूपवा - आलोकप्रकाशः
For Private And Personal Use Only
तत्वम् — प्रमेयत्वाद्युपलक्षितस्थले हेतुतावच्छेदकविशिष्टाधिकरणतायाः प्रसिद्धत्वाद् विशिष्टाधिकरणताघटितव्याप्त्यैव निर्वाहः । यत्र तु घटपटवृत्तिसंयोगादिहेतुकस्थले विशिष्टाधिकरणताया अप्रसिद्धिः, तत्रैव व्याप्त्यन्तरं स्वीक्रियते । तच्च हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मविशिष्टान्यावृत्त्याधेयतानिरूपिताधिकरणघटितम् । अनेनैव संयोगत्वाद्यवच्छिन्नातिप्रसक्ताधिकरणताया व्यावृत्तिः सम्भवति । इत्थञ्च व्याप्तिज्ञाने उदासीनप्रकारत्वादिविषयकत्वानङ्गीकारेऽपि न क्षतिः । यत्समानाधिकरणेत्यादिमूलस्य यथाश्रुतार्थकत्वमपि साधु सङ्गच्छते । एतदभिप्रेत्यैव दिगित्युक्तम् । पङ्क्तीति । पङ्क्तिरियं सार्वभौमपरिष्कारखण्डनस्था बोध्या । अनभ्युपगमेऽपीति । प्राचीनैर्यत्र तादात्म्यसम्बन्धेन यस्य हेतुता साध्यता वा तत्र तद्धर्मस्य तद्धर्मिणि वृत्तिनियामकसम्बन्धेन