________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. 'नच' रत्नमालिका खनिष्ठाधिकरणतानिरूपितत्वोभयसम्बन्धेन। द्वितीयकस्पेऽधिकरणतावैशिष्टयं स्वनिष्ठतादात्म्यत्वानवच्छिन्न प्रतियोगिताकनिरूपकत्व-निरूपितत्वसम्बन्धावच्छिन्नखनिष्ठप्रतियोगिताकाभाववत्त्वोभयसम्बन्धेन । तृतीयकल्पे तद्वैशिष्टयञ्च स्वनिरूपितत्व खनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेनेति ।
न चैवमपि सामान्यधर्मावच्छिन्नाधिकरणताया अतिरिक्तत्वपक्षे वह्निमान् धूमादित्यादौ साध्याभावाव्यावृत्तिः, द्रव्यत्वाद्यवच्छिन्नाधिकरणतानिरूपिताभावत्वाद्यवच्छिन्नाधेयत्वस्य पर्वतादिनिरूपितस्य तत्र सत्त्वादिति वाच्यम् ; आधेयत्वे अधिकरणत्वे वा पर्याप्त्यनुयोगितानवच्छेदकत्वस्य, तद्वयक्ति
नूतनालोकः प्रामाधेयतानिरूपितं यनिरूपकत्वम् , तद्वत्त्वस्यैव सकलास्वप्यधिकरणतासु सत्त्वात्तद्वद्भिन्नाधिकरणत्वाप्रसिद्धिरित्यधिकरणतात्वेन निवेशः ।
विनिगमनाविरहादाह-अधिकरणत्वे वेति । पर्याप्त्यनुयोगितावच्छेदकत्वस्येति । उभयवृत्तिधर्ममात्रस्य यत्किश्चित्पर्याप्त्यनुयोगितावच्छेदकत्वेन द्रव्यत्वाचवच्छिन्नाधिकरण
आलोकप्रकाशः त्वस्य हेतुनिष्ठाधिकरणताभिन्नत्वाभावात् , धूमाधिकरणत्वस्यापि निरुक्तान्यतरत्वेन हेतुत्वात् । न च हेत्वधिकरणनिष्ठाधिकरणतानिरूपितेत्यत्राधिकरणतायां . हेत्वधिकरणानधिकरणत्वविवक्षणात् पर्वतनिष्ठां हेत्वधिकरणाधिकरणीभूतां धूमाधिकरणतामादाय नाव्याप्तिरिति वाच्यम् ; एवं सति प्रमेयत्वादिरूपसद्धेतावव्याप्तेः, तत्र सर्वस्यैव हेत्वधिकरणाधिकरणत्वेन निरुक्तानधिकरणत्वाप्रसिद्धः । मूले-तादात्म्यत्वानवच्छिन्नप्रतियोगिताकेति । अत्र प्रतियोगितायां सम्बन्धानवच्छिन्नत्वं निरूपकत्वेऽभावत्वान्यत्वं वा विवक्षणीयम् । तेन पूर्वोक्तवह्नयधिकरणत्वसाध्यकस्थले साध्याभावव्यावृत्तिः, तादृशप्रतियोगितायाः सम्बन्धावच्छिन्नत्वात् , निरूपकत्वस्याभावरूपत्वेन तदन्यत्वाभावाच्च ।
ब्याख्यायाम्-पर्याप्त्यनुयोगितावच्छेदकत्वस्येतीति। न च यत्समानाधिकरणेत्यस्य हेतुतावच्छेदकविशिष्टहेत्ववच्छिन्नाधिकरणताकत्वमेवार्थोऽस्तु लाघवात् । इत्थञ्च हेतुतावच्छेदकविशिष्टहेतुमान् साध्याभाववानिति प्रतीतिसाक्षिकाधिकरणतामादाय लक्षणसमन्वयः । तथा च तादृशाधिकरणताकत्वस्य हेतुमदवृत्तावनङ्गीकारादव्याप्त्यप्रसक्त्या विशेषणमिदमनर्थकमिति वाच्यम् ; तादृशार्थविवक्षाया हेतुताक्च्छेदकस्य विशेषणत्वस्थले कथञ्चित् सम्भवेऽन्युपलक्षणत्वस्थले सम्भवात् । हेतुतावच्छेदकसमानाधिकरणाक्च्छेदकताकत्वमात्रविवक्षणे तु प्रमेयवान् साध्याभाववानित्यादिप्रतीतिसिद्धसामान्यधर्मावच्छिन्नाधिकरणताया व्यावृत्तिरशक्यपरिहारा । एवं
For Private And Personal Use Only