________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नच' रत्नमालिका पटवृत्तित्व संयोगत्वैतत्रितयम् , केवलसमवायादिना तदभावस्य केवलान्वयितया अधिकरणतामात्रस्यैव तदभाववनिरूपितत्वात्तथाविधाधिकरणत्वाप्रसिद्धयाऽव्याप्तिस्तदवस्थैवेति वाच्यम् * हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मशून्येत्यनेन हेतुतावच्छेदकतात्वव्यापकप्रतियोगिताकभेदस्यैव विवक्षणेनादोषात् । व्यापकता
नूतनालोकः धिकरणधर्मशून्यत्वविवक्षणे संयोगत्वरूपसामान्यधर्मावच्छिन्नाधेयत्वाव्यावृत्तिः, कालिकेन संयोगसामान्यस्यैव तादृशधर्मवत्त्वात् । अतो यत्किञ्चित्सम्बन्धेनैव तादृशधर्मशून्यत्वं विवक्षणीयमित्याशयः। कालिकादिना स्वाश्रयप्रतियोगिकसमवायादिनातादृशधर्मवत्त्वस्य प्रसिद्धरुक्तम्- केवलेति । समवायत्वाद्यतिरिक्तसंसर्गत्वावच्छेदकवत्त्वधर्माविशेषितेत्यर्थः । समवायादीत्यादिपदेन स्वरूपपरिग्रहः । हेतुतावच्छेदकतात्वव्याप
आलोकप्रकाशः तावच्छेदकतापर्याप्त्यधिकरणधर्मशून्यत्वविवक्षण इति। तादृशधर्मसम्बन्धित्वावच्छिन्नाभावविवक्षण इत्यर्थः । तेन सम्बन्धत्वेन सम्बन्धताविरहेऽपि न क्षतिः । स्वरूपपरिग्रह इति । समवायनिष्ठादितानिरूपकत्वेन स्वरूपस्योपस्थितिरित्यर्थः । आदिपदस्य प्रकृते समवायनिष्ठादितानिरूपकलक्षकत्वात् । ननु किमिदमादित्वम् । न तावत् प्रथमोत्पन्नत्वमसम्भवात् । नापि प्रथमवेद्यत्वम् , तस्य दुर्वचत्वात् । न च स्वरूपसम्बन्धज्ञानध्वंसासमानकालीनज्ञानविषयत्वं तदिति वाच्यम् ; यत्र समवायस्वरूपयोयुगपदेकं ज्ञानम् , तत्र समवायादीत्यादिपदेनेत्यादिप्रयोगानुपपत्तेः । न च स्वरूपज्ञानध्वंसासमानकालीनज्ञानविषयत्वं तदिति वाच्यम् ; यत्र स्वरूपज्ञानं प्रथमं जातम् , तदनन्तरं समवायस्वरूपयोञ्जनम् , तत्र दर्शितप्रयोगानुपपत्तेः, यदि च प्रयोगहेतुभूतैत्यपि ज्ञाने निवेश्यते, तदा महागौरवम् , प्रयोगहेतुभूतत्वादीनां शाब्दबोधे भानानुपपत्तिश्च । एवं पक्षद्वयेऽपि समवायस्यासंग्रहापत्तिश्चेति चेत् , अत्र केचित् तदादित्वं तद्धटितसमुदायघटकत्वम् , तन्निष्ठादितानिरूपकत्वं तद्धटितसमुदायविषयकशानविषयत्वम् । एवञ्च तत्तद्रूपेण समुदायघटकानां तदादित्वनिर्वाह इति । नन्वेवं पार्थिवविषयो घटजलादिरिति वाक्यस्य प्रामाण्यापत्तिः, घटजलघटितसमुदायविषयकज्ञानविषयत्वस्य पार्थिवविषये सत्त्वात् । न चोद्देश्यतावच्छेदकशून्याघटितत्वं समुदायविशेषणं वक्तव्यम् । तथा च जलघटितसमुदायस्य उद्देश्यतावच्छेदकीभूतपार्थिवविषयत्वशून्यजलघटितत्वान्न दोष इति वाच्यम् ; तथा सति प्रमेयं द्रव्यादीति वाक्यस्याप्रामाण्यापत्तेः, उद्देश्यतावच्छेदकशून्याप्रसिद्धेः । न चोद्देश्यतावच्छेदक
For Private And Personal Use Only