________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका तरप्रकाशटिप्पण्योपqहिता प्त्यधिकरणस्य घटपटवृत्तित्वसहितसंयोगत्वस्य गगनत्वादेरिवाधेयतानवच्छेदकतया तदनवच्छिन्नाधेयत्वानिरूपिताधिकरणत्वाप्रसिद्धरिति वाच्यम्; हेतुता. वच्छेदकतापर्याप्त्यधिकरणधर्मशून्यवृत्तित्वस्यैव तदर्थत्वेनादोषात् । (१८) * न च * हेतुतावच्छेदकतापर्याप्त्यधिकरणं यद् घटवृत्तित्व
नूतनालोकः अत्र वेकमेवेति विशेषोऽपि द्रष्टव्यः । अव्यावृत्तेरिति । तथा च घटपटवृत्तिसंयोगहेतुकस्थलेऽव्याप्तिरिति भावः। अप्रसिद्धेरिति । हेतुतावच्छेदकविशिष्टाधिकरणाप्रसिद्धथा अधिकरणत्वमात्रस्यैव तदनवच्छिन्नाधेयतानिरूपितत्वादिति भावः। अदोषादिति । संयोगत्वादिसामान्यधर्मावच्छिन्ननिरूपिताधिकरणताया हेतुभिन्नसंयोगनिरूपितत्वेन तद्वयावृत्तिसम्भवादिति भावः । न च तर्हि यत्र प्रमे यत्वोपलक्षितस्य हेतुता, तत्र हेतुतावच्छेदकस्य केवलान्वयितया तच्छून्यत्वस्याप्रसिद्धया अव्याप्तिरिति वाच्यम् , खाभाववनिरूपितत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वसम्बन्धेन हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मविशिष्टत्वस्याधिकरणताविशेषणत्वतात्पर्यात् । न च - लाघवाढेतुताशून्यानिरूपितत्वमेव कुतो न विवक्षितमिति वाच्यम् , तथा सति हेतुतायाः परामर्शीयविषयताविशेषरूपतया भ्रममादाय हेतुभिन्नसंयोगसाधारण्यात् संयोगत्वावच्छिन्ननिरूपिताधिकरणत्वाव्यावृत्तः। विषयतायां प्रमीयत्वनिवेशे गौरवात् । केवलसमवायादिनेति । सम्बन्धसामान्येन हेतुतावच्छेदकतापर्याप्य
__ आलोकप्रकाशः यथा गोत्वं नित्यं तथाश्वत्वमपीत्यादौ नित्यत्वस्यातथात्वेऽपि न क्षतिः। पूर्वोक्तहेताविति । घटपटवृत्तिसंयोगहेतावित्यर्थः । हेतुतावच्छेदकविशिष्टहेस्वधिकरणाप्रसिद्धथेति। तद्विशिष्टाधिकरणत्वस्य प्रसिद्धावेव तस्याधेयतावच्छेदकत्वमिति भावः । विशिष्टहेतुतास्थले उक्तविशेषणस्यैवानिवेशनीयतया क्षत्यभावादुक्तम्-प्रमेयत्वोपलक्षितस्येति । तस्य विशेषणविधयेवोपलक्षणविधयापि हेतुतावच्छेदकत्वे बाधकामावादिति भावः । विषयताविशेषरूपतयेति । अनुमितिजनकतावच्छेदकीभूतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकारतारूपाया इत्यर्थः । भ्रममादायेति । हेतुतावच्छेदकरूपेणोदासीनसंयोगविषयकभ्रममादायेत्यर्थः। अधिकरणत्वाज्यावृत्तेरिति । संयोगसामान्यस्यैव निरुक्तहेतुतावत्वेन तच्छून्यत्वासम्भवादिति भावः । न च हेतुताया एवं रीत्या सार्वत्रिकत्वेन तच्छून्याप्रसिद्धिरिति वाच्यम् ; सर्वत्र तादृशभ्रमसत्त्वे प्रमाणासावादित्याशयात् । सम्बन्धसामान्येन हेतु
For Private And Personal Use Only