SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४६ 'नव' रत्नमालिका धेयत्वानिरूपितत्वस्य विवक्षया उक्ताधिकरणताव्यावृत्तेः । तस्या हेतुतावच्छेदका - नवच्छिन्नगुणत्वावच्छिन्नाधेयतानिरूपितत्वात् । ( १७ ) * न च हेतुतावच्छेदकानवच्छिन्ने त्यस्य हेतुतावच्छेदकताश्रयनिष्ठावच्छेदकताकान्यत्वम्, हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मनिष्ठावच्छेदकताकान्यत्वं वार्थो वक्तव्यः । स च न सम्भवति, प्रथमे संयोगत्वरूपसामान्यधर्मावच्छिन्ननिरूपिताधिकरणत्वाव्यावृत्तेः । द्वितीये च हेतुतावच्छेदकतापर्यानूतनालोकः Acharya Shri Kailassagarsuri Gyanmandir व्यभिचारवारणाय । भेदसामानाधिकरण्यं विशेषणम् । तेन साधारणधर्ममादाय गवि न व्यभिचारः । तद्वृत्तित्वं चोपलक्षणम् । तेन न स्वरूपासिद्धिः । न च द्रव्यत्वादिकमादाय घटादौ व्यभिचारः शङ्कयः; उपमानोपमेयमात्रवृत्तिधर्मनिष्ठवृत्तित्वविशेषस्यैवोपलक्षणतया तद्भटकत्वाभिप्रायात् । यत्तु भूयस्त्वं वा धर्मविशेषणम् । तच्च प्रकृते उपमानोपमेयतद्भिन्नसाधारणधर्मान्यत्वम् । घटत्वादेरुपमानाद्यवृत्तित्वेन निरुक्तभूयस्त्वात्तदादाय घटादौ व्यभिचारवारणाय तद्वृत्तित्वमावश्यकम्। न चैवमपि गोघटगत द्वित्वादिकमादाय घटत्वादौ व्यभिचारो दुर्वार एवेति वाच्यम्; जातित्वेनापि प्रकृते धर्मस्य विशेषणीयत्वात् । अनुगत संस्थानव्यङ्गथजातिविशेषस्योपमानोपमेयमात्रवृत्तेस्तथात्वात् पक्षधर्मत्वनिर्वाह इति तन्न; एवमुपमानोपमेय मात्र साधारणानन्तजातिकल्पने प्रमाणाभावात् । मुखपद्मयोः सादृश्यरूपजातेः करपद्मयोस्तादृशजातेच परस्परं भिन्नयोः साङ्कर्येण जातित्वासम्भवाश्च । पूर्वोक्त तावुभयमप्युपलक्षणम् । आलोकप्रकाशः व्यवस्थापनाय सादृश्यहेतुकानुमाननिराकरणं मणिकृतां व्यर्थमेव स्यादिति भावः । न स्वरूपासिद्धिरिति । इदञ्च हेतुशरीरे तद्भेदसामानाधिकरण्यतद्वृत्तित्वयोरेकत्र द्वयमिति रीत्या विशेषणत्वाभिप्रायेण । एकविशिष्टेऽपरस्य विशेषणत्वे तु साधनाप्रसिद्धिरेव दोषो बोध्यः । उपमानोपमेयेति । वृत्तित्वविशेषस्यैवेति । सास्नादिनिष्ठवृत्तिताया इत्यर्थः । यदि गोगवयसास्नयोर्वस्तुतो भेदाद्गोवृत्तित्वपलक्षितसास्नावत्त्वं गवये पक्षे नास्तीति स्वरूपासिद्धिरिति विभाव्यते, तदा धर्मः सास्नात्वादिजातिरूपो ग्राह्यः । वृत्तित्वं धर्मवत्त्वश्च परम्परयेति विभावनीयम् । तद्धटकस्वाभिप्रायादिति । हेतुघटकत्वतात्पर्यादित्यर्थः । अनेन सामान्यतः सादृश्यशरीरे न वृत्तित्वविशेषनिवेशः, अपि तु वाच्यत्वसाधकतावेवेति सूचितम् । तथा च तद्वृत्तीत्यत्र तदिति वृत्तित्वविशेषपरिचायकमेवेत्याशयः । तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं तत्सादृश्यमिति मतानुसारिणां रीतिमाह-यविति । प्रकृत इति । तैन For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy