________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतना लोकटीका तत्प्रकाशटिप्पण्योपबृंहिता
(१६) * न च यत्र घटपटवृत्तिसंयोगत्वादिना हेतुता, घटपटान्यतरत्वं साध्यम्, तत्र घटपटोभयवृत्तित्वविशिष्टसंयोगाधिकरणत्वाप्रसिद्धया
४५
हेतुतावच्छेदकोपलक्षितहेतुसामानाधिकरण्यगर्भव्याप्त्यन्तरमवश्यमङ्गीकरणीयम् ।
अन्यथा
तत्साध्यकतद्धेतुकानुमितेरुच्छेदप्रसङ्गात् । सादृश्यहेतुकानुमित्युच्छेदापत्तेश्व । तद्भेदसामानाधिकरण्यसहिततद्वृत्तिधर्मत्वरूप सादृश्यत्वविशिष्टाधिकरणत्वाप्रसिध्या विशिष्टाधिकरणतागर्भव्याप्त्यसम्भवात् । स्पष्टं चेदं सिद्धान्तलक्षणे । एवं चातिरिक्तसामान्यधर्मावच्छिन्ननिरूपिताधिकरणत्वाङ्गीकारे तत्र ताशव्याप्तेर्घटपटवृत्तिसंयोगनिष्ठागुणत्वावच्छिन्नाधेयतानिरूपिताधिकरणतामादायानिर्वाहप्रसङ्ग इति वाच्यम्; हेतुतावच्छेदकोपलक्षितहेतुकानुमित्यौपयिकव्याप्तिशरीरप्रविष्टाधिकरणतायां हेतुतावच्छेदकानवच्छिन्ना
नूतनालोकः
सम्भवतीति भावः । यद्यभ्रान्तानां घटपटवृत्तिसंयोगहेतुकनिरुक्तान्यतरत्वसाध्यकस्थलेनैवानुमितिरित्युच्यते, तदाप्याह - सादृश्यहेतुकानुमितीति । गोसादृश्यहेतुकगवयपदवाच्यत्वविधेयकानुमितीत्यर्थः। उच्छेदापत्तेरिति । तथा चोपमितेः सादृश्यहेतुकानुमितित्वाशङ्काया एवानुत्थितिरिति भावः । तद्भेदेति तद्वृत्तीति च गवि घटादौ च आलोकप्रकाशः
For Private And Personal Use Only
मन्यत्रापि तत्तत्प्रतीतिविषयत्वमेव तत्तदभावप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकमिति तत्र तत्र तत्तदभावनिर्वाहः । न चैवं सति घटाद्यधिकरणताया घटाद्यभावविरोधित्वानुपपत्तिः, तत्प्रतियोगितावच्छेकताया घटत्वादिमात्रवृत्तितया व्यासज्यवृत्तित्वाभावात् । अव्यासज्यवृत्तिधर्मस्य प्रमाणाभावेन पर्याप्त्यस्वीकारात् । तथा चानुगतोक्तिर्न सम्भवत्येवेति वाच्यम्; अयमेको घट इत्यादिप्रतीत्या अव्यासज्यवृत्तिघटत्वादेरपि पर्याप्सिस्वीकारात् । अत एवावच्छेदकता निरुक्तौ “समानवृत्तिकं चावच्छेदकं ग्राह्यम् । तस्वञ्च स्वपर्याप्त्यधिकरणपर्याप्तवृत्तिकत्वम्" इति पर्याप्तिघटितं समानवृत्तिकत्वं निरुक्तम् । अपि च घटो नास्तीत्यादौ नत्रादिसमभिव्याहारलभ्यस्यान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्य प्रतियोग्यंशे प्रकारीभूतधर्मपर्याप्तावच्छेदकता कप्रतियोगिताकत्वरूपतया तादृशप्रतीत्यापि तत्सिद्धिः । अनेकेषु ज्ञानविषयत्वकल्पनापेक्षयाऽधिकरणत्वस्यैकस्यैव तत्कल्पनाया लघुत्वमित्यतिरिक्तत्वसिद्धिः । अन्यथा विशेषाभावकूटातिरिक्तः सामान्याभावो न सद्धयेत् । एतदेव सूचयितुमुक्तम् - दिगिति । भाशङ्काया एवानुस्थितिरिति । तथा चोपमानप्रामाण्य