________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नं च' रनमालिका
घटितत्वात् । एवं च निरूपकतावच्छेदकभेदेनाधिकरणताया भेदावश्यकतया अतिरिक्ताधिकरणतासिद्धिरित्याहुः ।
नूतनालोकः
पदार्थासिद्धया यत्किचिदेकधर्ममात्रावच्छिन्न प्रतियोगिता का भावस्य विरोधि - विरहेण केवलान्वयित्वापत्तेः । विशिष्यैव तत्र तत्र विरोधित्वनिरुक्तौ प्रयासाधिक्यम् । अत एव समानाधिकरणधर्मस्यापि व्यधिकरणधर्मावच्छिन्नाभावप्रतियोगितावच्छेदकत्व मुररीकृतम् । निरूपकतावच्छेदकताया व्यासज्यवृत्तित्वोपगमे तु प्रतियोगितावच्छे कता पर्याप्त्यनुयोगितावच्छेदकावच्छिन्नपर्याप्तिकस्वनिरूपकतावच्छेदकताकाधिकरणत्वमेव विरोधीत्यनुगतोक्तेर्निवाह इति दिक् ।
अतिरिक्ताधिकरणतासिद्धिरिति । तथा च वह्निमान् धूमादित्यादावेव द्रव्यत्वाद्यवच्छिन्ननिरूपितह्रदादिनिष्ठाधिकरणतामादाय हेतुतावच्छेदकावच्छिन्नत्वनिवेशव्यावृत्तिः
आलोकप्रकाशः
उक्तसम्बन्धे न तद्विशिष्टत्वस्य घटपटोभयाधिकरणतायां प्रसिद्धत्वात् । प्रतियोगिता वैशिष्टयकोटी सामानाधिकरण्यानुपादाने घटत्वेन पटो नास्तीत्यभावस्य घटवानिति प्रतीतिसिद्धाधिकरणतया साकं विरोधापत्तिरिति वाच्यम्; एवमपि संयोगेन घटत्वेन घटो नास्तीति प्रतीतिसिद्धाभावस्य घटवत्यनिर्वाहप्रसङ्गात् । न च तत्प्रतियोगिताविशिष्टनिरूपकताकाधिकरणत्वस्य तन्निरूपकाभावविरोधित्वोपगमान्निखिलदोषोद्धारः। वैशिष्टयश्च सामानाधिकरण्य-स्वनिरूपितावच्छेदकतानिष्ठ भेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठा वच्छेदकताकप्रतियोगिताकभेदवत्त्वैतदुभयसम्बन्धेन | वैशिष्टयञ्च सामानाधिकरण्य-स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयरूपम् । घटत्वेन पटाभावस्य पटवत्यनिर्वाहप्रसङ्गः, प्रतियोगितावच्छेदकताया निरूपकतावच्छेदकतायाश्चैकसम्बन्धावच्छिन्नत्वेन तद्घटितव्यापकस्वानपायात् । अतोऽवच्छेदकता वैशिष्ट्ये सामानाधिकरण्यनिवेश इति वाच्यम्; एवमपि घटपटोभयाधिकरणतानिरूपकतावच्छेदकताया घटत्वपटत्वोभयत्वैतत्त्रितयवृत्तित्वाभ्युपगमपक्षे घटत्वेन पटोभावस्य घटपटो भयवत्यनिर्वाहप्रसङ्गात् । व्यासज्यवृत्तित्वाभ्युपगमे तु घटत्वेन पटाभावीयप्रति - योगितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्ते रप्रसिद्धया दोषानवकाशादिति दिकू । अनुगतोक्तेनिर्वाह इति । अत्र घटवृत्तित्वविशिष्टद्रव्यत्वविशिष्टसत्ताभावस्य प्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकं घटवृत्तित्वविशिष्टद्रव्यत्वविशिष्टा सत्तेति ज्ञानविषयत्वमेवेति तदवच्छिन्नानुयोगिताकपर्याप्तिकस्वनिरूपकतावच्छेदकताकाधिकरणत्वस्य पटादावनङ्गीकारेण तत्र तादृशाभावनिर्वाहः । एव
For Private And Personal Use Only