________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः
धर्मत्रयपर्याप्तत्वावश्यकतया घटपटोभयाधिकरणे तादृशाभावनिर्वाहः । सर्वमिदं विशेषव्याप्त्यधिकरणे स्पष्टमभिहितमिति वाच्यम्; यतो घटपटौ न स्त इति प्रतीतिसिद्धाभावप्रतियोगितावच्छेदकता द्वित्वमात्र एव स्वीक्रियते, न तु घटत्वे
घटपटोभयाभावप्रतियोगितावच्छेदकता
पटत्वे च । सा च घटत्वसमानाधिकरणपटत्वसमानाधिकरणपर्याप्तिसम्बन्धावच्छिन्ना । तथा च तादृशसम्बन्धावच्छिन्नद्वित्वनिष्ठावच्छेदकता कनिरूपकताकाधिकरणत्वस्य विरोधिनो घटकुड्योभयवत्त्वसत्त्वेन न तत्र तादृशाभावनिर्वाहः । घटत्वेन तु घटत्वघटपटोभयत्वयोः पर्याप्ता । इत्थं च घटत्वेन घटपटोभयवदिति प्रमात्मकप्रतीत्यभावेन तादृशधर्मद्वयपर्याप्त स्वनिरूपकतावच्छेदकताकाधिकरणत्वस्य विरोधिनोऽसिद्धत्वान्न तादृशाभावस्य केवलान्वयित्वानुपपत्तिरिति । न च प्रतियोगितावच्छेदकं यद्यत्, तत्तदवच्छिन्न प्रतियोगिताका धिकरणता कूटस्यैव विरोधित्वमुपगम्यते । विरोधितावच्छेदकशरीरे पर्याप्तिप्रवेशो व्यर्थ इति वाच्यम्, तथा सति यद्यआलोकप्रकाशः
। तथा च
Acharya Shri Kailassagarsuri Gyanmandir
"
ताशाभावानिर्वाह इति । यद्यप्युभयाभावप्रतियोगिताया व्यासज्यंवृत्तित्वाभ्युपगमान्न कोऽपि दोषः । स्पष्टश्वायं " वाच्यत्वं यथा न समवायि तथा वक्ष्यते" इति दीधित्यवतरणिकायाम्, तथापि प्रतियोगितामात्रस्याव्यासज्यवृत्तित्वसिद्धान्तादित्थमभिहितम् । चतुर्दशलक्षणी कृष्णम्भट्टीयोक्तदिशा समाधत्ते -यत इति । न च तन्निरूपितप्रतियोगितावच्छेदकताव्यापकस्व निरूपकतावच्छेदकता काधिकरणत्वस्यैव विरोधित्वकल्पनान्न कोऽपि दोष इति वाच्यम् ; एवमपि समानाधिकरणसम्बन्धेन घटत्वविशिष्टं यद्द्रव्यत्वम् तद्विशिष्टसत्ताभावस्य पटादावनिर्वाहप्रसङ्गात् । तत्रावच्छेदककोटिप्रविष्टानामवच्छेदकत्वानुपगमे द्रव्यत्वसत्तात्वयोरेव प्रतियोगितावच्छेदकतापर्याप्तेर्विश्रान्ततया तदुभयावच्छिन्ननिरूपकताकाधिकरणत्वस्य तंत्र सत्त्वात् । तदुपगमे तु घटत्वावच्छिन्नप्रतियोगिताकाभावस्य घटसमानकालीन पटवत्यनिर्वाहप्रसङ्गात् तत्र घटत्वस्यापि कोटिप्रविष्टतया निरुक्ताधिकरण तानिरूपकतावच्छेदकत्वात् । सर्वस्यैवाभावस्य पूर्वक्षणवृत्तित्वविशिष्टस्वाभावत्वनिष्ठप्रतियोगितावच्छेदकतया विरोध्यप्रसिद्धेश्व । तव्प्रतियोगितावच्छेदकतासमभ्यासस्वनिरूपकतावच्छेदकताकाधिकरणत्वस्य विरोधित्वाभ्युपगमेऽतिरिक्ताधिकरणतासिद्धेरव्याहतत्वात् । न च स्वावच्छेदकताव्यापकावच्छेदकताकत्व - सामानाधिकरण्योभयसम्बन्धेन प्रतियोगिताविशिष्टनिरूपकताकाधिकरणत्वस्य विरोधित्वस्वीकारे न दोषः । स्वपदेन घटपटोभयनिष्ठप्रतियोगिता ग्रहणे
"
For Private And Personal Use Only
४३