________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रत्नमालिका
नूतनालोकः प्रतियोगितावच्छेद कसत्तात्वावच्छिन्ननिरूपकताकाधिकरणत्वस्य विरोधिनः सत्त्वात् , म च प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्ननिरूपकताकाधिकरणत्वस्यैव विरोधित्वोपगमानायं दोष इति वाच्यम् , प्रत्येकापर्याप्तस्य समुदायापर्याप्तत्वनियमेन सत्तात्वेऽपि तत्पर्याप्तिरक्षतैवेति प्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताप्रवेशस्यावश्यकत्वात्। न चैवं सति अत्र घटपटौ न स्त इति प्रतीतिविषयाभावस्य घटत्वेन घटपटोभयाभाववत् केवलान्वयित्वप्रसङ्गः । यतस्तादृशाभावप्रतियोगितावच्छेदकतापर्याप्तिर्न घटत्वमात्रे पटत्वमात्रे वा सम्भवति । तथा सति पटशून्ये घटवति घटशून्ये पटवति वा भूतले ताशाभावानिर्वाहप्रसङ्गात् । न वा घटपटवृत्तित्वविशिष्टद्वित्वे, तथा सति यदा तादृशवैशिष्टयानुपस्थितिस्तदा घटपटौ न स्त इति प्रतीतिर्न स्यात्। तादृशवैशिष्टयस्य प्रतियोगितावच्छेदकघटकत्वेन तज्ज्ञानस्य तादृशप्रतीतावपेक्षणात्; अपि तु द्वित्वे तद्धर्मितावच्छेदकतापन्ने घटत्वे पटत्वे च । एवं च तादृशाभावप्रतियोगितावच्छेदकतापर्याप्यधिकरणघटत्वपटत्वद्वित्वैतत्त्रितयाधिकरणाप्रसिद्धथा तदवच्छिन्ननिरूपकताकाधिकरणत्वमप्यप्रसिद्धमिति । यदि च घटपटावत्र स्त इति प्रतीतिबलात् त्रितयाधिकरणाप्रसिद्धावप्यधिकरणतानिरूपकतावच्छेदकताप्येतत्रितयधर्मपर्याप्तेत्युच्यते, तदा घटत्वेन घटपदी न स्त इति प्रतीतिविषयाभावप्रतियोगितावच्छेदकताया अप्युक्तयुक्त्या तादृश
आलोकप्रकाशः प्रवेशे सतीत्यर्थः । अप्रसिद्धमितीति। तथा च तादृशाभावविरोधिनोऽप्रसिद्धिरिति भावः । यदि चेत्यादि । वक्ष्यमाणरीत्या केवलद्वित्वेऽवच्छेदकतास्वीकारेणैवोपपत्तौ धर्मत्रये तस्वीकारो व्यर्थ इत्यस्वरसाद्यदि चेत्युक्तम् । यदि चेत्यस्य ईषदनिष्टत्वमर्थः, “यदि चेषदनिष्टत्वे" इत्युक्तत्वात् , तच्च बलवद्वेषविषयत्वम् , तस्य पर्यातत्वेऽन्वयः । तथा च यद्ययं पर्याप्त्यङ्गीकारः सर्वसामञ्जस्यमापादयेत् , तदा बलवद्वेषविषयः स्यात् , तदेव नेति पर्यवसितोऽर्थः । तदेत्यत्र तच्छन्देन प्रक्रान्तस्य पर्याप्तत्वस्य परामर्शः। तस्य जन्यज्ञानरूपदाप्रत्यर्थैकदेशजन्यतायामन्वयः । जन्यत्वञ्च शानद्वारा, "तदा तजन्यवेदनम्" इत्युक्तत्वात् । प्रत्ययार्थस्य विषयता सम्बन्धेनानिर्वा हेऽन्वयः। निरुक्तपर्याप्तत्वे गृहीते दोषप्रतिपिपादयिषा ततस्तनिर्वाहकदोषज्ञानाय विचारः, ततो दोषज्ञानमिति क्रमेण दोषज्ञापकतापर्याप्तत्वस्येति बोध्यम् ।
For Private And Personal Use Only