________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः च्छेदकत्वाधिकरणतानिरूपकतावच्छेकत्वयोर्यदेकधर्मावच्छिन्नपर्याप्तत्वम् , तद्घटितत्वादित्यर्थः। तथा च तत्प्रतियोगितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तावच्छेदकताकनिरूपकताकाधिकरणताया एव तद्विरोधित्वेन तदन्यथानुपपत्त्या केवलमहानसीयवह्नित्वे प्रतियोगितावच्छेदकताया इव अधिकरणतानिरूपकतावच्छेदकताया अपि व्यासज्यवृत्तित्वं स्वीकरणीयमित्यधिकरणताभेदसिद्धिरिति भावः। अधिकरणतानिरूपकतावच्छेदकताया व्यासज्यवृत्तित्वस्य कुत्राप्यनुक्तत्वादप्रामाणिकतेति न शङ्कथम्, “साधनसमानाधिकरणयावद्धर्मनिरूपितवैयधिकरण्यानधिकरणसाध्यसमानाधिकरण्यम्" इति मणिदीधितिव्याख्यानावसरे कण्ठतस्तदभिधानात् । अत्रायमाशयः-निरूपकतावच्छेदकताया व्यासज्यवृत्तित्वानुपगमे गुणादौ गुणाद्यन्यत्वविशिष्टसत्तात्वावच्छिन्नाभावानिर्वाहप्रसङ्गः। तत्र
आलोकप्रकाशः अप्रामाणिकतेति। तथा च विरोधितावच्छेदकरूपस्य पर्याप्तिघटितत्वासम्भवेन नोक्तरीत्या अधिकरणताभेदसिद्धिरिति भावः। मणीति । मणिरयं व्याप्तिपूर्वपक्षग्रन्थस्थः । साधनसमानाधिकरणा यावन्तो धर्माः प्रत्येकं तेषां वैयधिकरण्यस्यानधिकरणं यत् साध्यम् , तत्सामानाधिकरण्यं व्याप्तिरिति तदर्थः । अत्र साधनवैयधिकरण्यानधिकरणेत्युक्तौ धूमवान् वढेरित्यादावतिव्याप्तिः । यद्यपि यत्किञ्चित्साधनवैयधिकरण्यानधिकरणयावत्साध्यसामानाधिकरण्यविवक्षायां नेयमव्याप्तिः, तथापि द्रव्यं सत्त्वादित्यादौ तदपरिहारात् साधनसमानाधिकरणधर्मेति । घूमवान् वढेरित्यादौ धूमादेवयादिसमानाधिकरणद्रव्यत्वादिवैयधिकरण्यानधिकरणत्वादतिव्याप्तिरतो यावदिति । वैयधिकरण्यञ्चात्र तदनधिकरणवृत्तित्वरूपम् , न तु तदधिकरणावृत्तित्वरूपम् , “साधनसमानाधिकरणस्य वैयधिकरण्याप्रसिद्धः' इत्युत्तरमणिग्रन्थानुसारात् । वैयधिकरण्यस्य प्रत्येकं तत्तदधिकरणवृत्तित्वाभावरूपत्वे तस्यावृत्तौ प्रसिद्धिसम्भवाद्वैयधिकरण्यस्याप्रसिद्धत्वोक्तेरसाङ्गत्यं स्यादिति भावः ।
तदभिधानादिति। तत्थमभिहितम्-"वस्तुतस्तु यादृशावच्छेदकताकनिरूपकताकाधिकरणतासामान्यं तादृशधर्मानधिकरणमात्रवृत्तितादृशावच्छेदकतारूपमेव वैयधिकरण्यावच्छेदकत्वं निवेशनीयम् । महानसीयवह्नित्वावच्छिन्नाधिकरणतानिरूपकतावच्छेदकत्वञ्च महानसीयत्वादौ व्यासज्यवृत्तीति न दोषः" इति । अधिकरणतानिरूपकतावच्छेदकताया व्यासज्यवृत्तित्वं युक्त्या विशदयति-अत्रायमित्यादिना। एवं सतीति । पर्याप्ति
For Private And Personal Use Only