________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रस्नमालिका अन्ये तु महानसीयवह्निमानित्यादिप्रतीतौ भासमानाधिकरणता न तद्वह्नित्वावच्छिन्ननिरूपकताका भवितुमर्हति । तथा सति तस्या महानसीयवनयभावादिविरोधित्वानुपपत्तेः, विरोधितावच्छेदकरूपस्यावच्छेदकतापर्याप्ति
नूतनालोकः भावकूटवदवच्छिन्नतादृशसमुदायत्वसमानाधिकरणाभावप्रतियोगिताकं यद्यत्स्वं तत्तदन्यत्वरूपपारिभाषिकव्यापकतावच्छेदकत्वभानाङ्गीकारोऽपि निरस्तः। तद्रूपावच्छिन्ननिरूपिताधिकरणतात्वे तादृशप्रतियोगिताकत्वसत्त्वेन तदनतिरिक्तरूपाधिकरणतात्वे तदन्यत्वासम्भवाञ्च । वस्तुतस्तु अतिरिक्तसामान्यधर्मावच्छिन्नाधारावेयभावाभ्युपगमे घटसमुदायो रूपवानित्यादिप्रतीतेरुद्देश्यतावच्छेदकावच्छिन्नतादृशाधारत्वावगाहित्वेनैवोपपत्तौ धर्मितावच्छेदके व्याप्यत्वभानोपगमो निरर्थक एवेति । ____ कार्यतावच्छेदकभेदेन कारणताया इव निरूपकतावच्छेदकभेदेनाधिकरणताया अपि भेद आवश्यक इत्यव्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताप्यतिरिक्तव । तासां निरूपकतावच्छेदकभेदेऽप्यभेदप्रतिपादनपरग्रन्थाश्च मतविशेषाभिप्रायका इति वदतां मतमाह-अन्ये विति । महानसीयवह्निमानितीति । एकमात्रवृत्तिधर्मस्य पर्याप्त्यनभ्युपगमपक्षमवलम्ब्य वह्निमानित्युक्तिः । अवच्छेदकतापर्याप्तिघटितत्वादिति । अभावप्रतियोगिताव
... आलोकप्रकाशः..... पत्तिरिति संसर्गप्रकारकतात्पर्यज्ञानस्यैव हेतुत्वावश्यकत्वादिति चेन्न; इदं वाक्यं घटवत्प्रतीतिपरमित्याकारकस्यैव तात्पर्यज्ञानस्य हेतुत्वस्वीकारात् , प्रतीत्यंशे संसर्गविधया भासमानघटसम्बन्धश्च स्वनिष्ठाधेयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितकर्मत्वनिष्ठविशेष्यताकत्वमेवेति । आधेयत्वादेरप्रकारतया न तज्ज्ञानापेक्षा, न वा शब्दमात्रस्यानुवादकतकापत्तिरित्याशयात् । स्पष्टं चेदं नयादगादाधर्याम् । अननुगमप्रसङ्ग इति। तथा चावच्छिन्नत्वस्य विशिष्टैकार्थरूपत्वानुपपत्तिरिति भावः। न च स्वविशिष्टसम्बन्धिनिष्ठाभावप्रतियोगितावच्छेदकत्वसामान्याभाव एव विवक्षणीयः। तथा च नाननुगम इति वाच्यम् ; तथा सति गुरोः स्वपदेनाग्रहणप्रसङ्गात् । यद्यत्स्वमिति । न च तादृशाभावकूटवदनवच्छिन्नतादृशसमुदायत्वसमानाधिकरणाभावप्रतियोगिताकत्वमेव व्यापकतावच्छेदकमस्तु, वीप्सा किमर्थेति वाच्यम् , एवं सति तद्रूपाधिकरणतात्वेऽपि तादृशसमुदायत्वव्यापकतावच्छेदकत्वापत्तेः । यत्किञ्चित्पटत्वाधिकरणत्वाभावप्रतियोगितायां तादृशकूटवदनवच्छिन्नत्वसत्त्वात् । अधिकमन्यत्रानुसन्धेयमिति । ..
. .
. ...... .
For Private And Personal Use Only