________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता
नूतनालोकः सामान्यधर्मावच्छिन्ननिरूपितत्वं स्वीक्रियते, न त्वतिरिक्ता काचिदधिकरणताङ्गीकार्या प्रयोजनाभावादिति व्याप्तिवादपूर्वपक्षप्रकरणेऽभिधानात्तद्विरोध इति वाच्यम्; अव्यासज्यवृत्तिधर्मावच्छिन्नसामान्यधर्मावच्छिन्ननिरूपिताधिकरणताया अनतिरिक्तत्व एव तत्तात्पर्येण विरोधाभावात् । यत्तु घटसमुदायो रूपवानित्यादिप्रतीतौ स्वनिष्ठरूपाधिकरणतात्वादिरूपप्रकारतावच्छेदकावच्छिन्ननिरूपितव्याप्यत्वस्य प्रकारविधया संसर्गविधया वा तादृशसमुदायत्वे भानुमुपेयते। तथा च न काप्यनुपपत्तिरित्यतिरिक्तानन्ताधिकरणताकल्पनमनावश्यकमेवेति तदसत्, घटसमुदायो नीलरूपवानित्यादिप्रतीतेरनिर्वाहप्रसङ्गात् । रूपत्वाघटितनीलत्वाधिकरणतात्वापेक्षया नीलरूपाधिकरणतात्वस्य गुरुतयाऽभावप्रतियोगितानवच्छेदकत्वेन तदवच्छिन्नाभावघटितव्याप्तयप्रसिद्धेः । स्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकप्रकारतावच्छेदकव.त्वरूपव्याप्तेः प्रसिद्धतया तद्भानोपगमे घटसमुदायस्तद्रूपवानिति प्रतीत्यापत्तिः। तत्र प्रकारतावच्छेदकस्य गुरुतयाऽभावप्रतियोगितानवच्छेदकत्वात् , यदि च स्वविशिष्टसम्बन्धिनिष्ठाभावीया या या प्रतियोगिता तत्तदवच्छेदकत्वाभावकूटवदवच्छिन्नत्वरूपं पारिभाषिकावच्छिन्नत्वं विवक्ष्यते, तदा अननुगमप्रसङ्गः । एतेन प्रकारतावच्छेदके स्वविशिष्टसम्बन्धिनिष्ठाभावीया या या प्रतियोगिता तत्तदवच्छेदकत्वा
आलोकप्रकाशः इत्यादौ अतिरिक्ताध्ययनाधारतायां त्रिंशदिनपर्याप्तसमुदायत्वरूपमासत्वावच्छिन्नत्वभानाङ्गीकारेणैवोपपत्तौ द्वितीयाया व्यापकत्वार्थकत्वोपगमो निरर्थक इति वाच्यम् ; आनुशासनिकात्यन्तसंयोगार्थकत्वनिर्वाहायैव तथोपगमात् । न काप्यनुपपत्तिरिति । केवलान्वयिप्रकारकस्थले व्याप्यत्वभानस्य निष्प्रयोजनतया व्यतिरेकिप्रकारकस्थल एव तद्भानाङ्गीकारेण घटसमुदायः प्रमेयवानित्यत्र नानुपपत्तिरित्यभिमानः । शाब्दप्रतीतौ प्रकारविधया तद्भानं न संभवतीत्यत आह-संसर्गविधया वेति । संसर्गोपस्थितेः प्रत्यक्षादाविव शाब्दबोधे तत्पूर्वमनपेक्षितत्वादिति भावः । ननु घटमानयेत्यादौ इदं वाक्यं कर्मत्वविशेष्यकाधेयत्वसंसर्गकघटप्रकारकबोधपरमित्याकारकस्यैव संसर्गतात्पर्यज्ञानस्य हेतुता वाच्या। तत्र चाधेयत्वं प्रकार एव, न तु संसर्ग इति । कथं संसर्गोपस्थितेः शाब्दबोधेऽनपेक्षितत्वम् । न च तत्राप्याधेयत्वं संसर्गतयैव विषयः । तथा
चैतद्वाक्यं घटवत्कर्मत्वप्रतीतिपरमित्याकारकज्ञानमेव हेतुरिति वाच्यम् , घटवत्कर्मत्वरूपवाक्यार्थस्यापूर्वतया शब्दबोधात् पूर्व तज्ज्ञानस्याप्यसम्भवात् । कथञ्चित् सम्भवे शब्दमात्रस्यानुवादकता
For Private And Personal Use Only