________________
Shri Mahavir Jain Aradhana Kendra
३८
www.kobatirth.org
'न च' रत्नमालिका
नूतनालोकः
पकतत्कत्वरूपम्, येनोक्तदोषाणामवकाशः । किन्तु रूपाधिकरणतात्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदवदवृत्तित्वपर्यवसितं तद्वदन्यावृत्तित्वमेव । तथा च नातिरिक्ताधिकरणतासिद्धिरिति वाच्यम्, एवं सति घटसमुदायः प्रमेयवानिति प्रतीतेरनिर्वाहप्रसङ्गात् । तत्र प्रमेयाधिकरणत्वस्य केवलान्वयितया तद्वदन्यावृत्तित्व रूपव्याप्यत्वाप्रसिद्धेः । न च स्वाभाववन्निरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकाभाववत्त्वरूपमेव व्याप्यत्वं भासत इत्युपेयते । तथा च घटपटौ जातिमन्ताविति प्रतीतेर्नानिर्वाहः । जातिमत्त्वस्य समवायसम्बन्धावच्छिन्नस्वाभाववद्वृत्तित्वं व्यधिकरणसम्बन्ध इति तत्सम्बन्धावच्छिन्न प्रतियोगिता कस्वाभाववत्त्वरूपव्याप्यत्वस्य प्रसिद्धेः । एवं घटसमुदायः प्रमेयवानित्यत्र स्वाभाववन्निरूपितपर्याप्तिसम्बन्धावच्छिन्नवृत्तित्वसम्बन्धावच्छिन्न स्वनिष्ठप्रतियोगिताकाभाववत्त्वस्यैव भानोपगमान्नाप्रसिद्धिः । स्वाभाववद् वृत्तित्वस्य प्रमेयव्यधिकरणसम्बन्धत्वात् । एवञ्च व्यतिरेक्यव्यतिरेकिभेदेन न व्याप्तिभेदोपगमः । उक्तरीत्या सर्वत्र तद्वदन्यावृत्तित्वरूपव्याप्तिभानोपगमसम्भवादिति वाच्यम्; एवमपि घटनिष्ठरूपाधिकरणतानां रूपभेदेन भिन्नतया काञ्चिदप्यधिकरणताव्यक्ति प्रति घटसमुदायत्वस्य व्याप्यत्वाभावेन घटसमुदायो रूपवानिति प्रतीतेरनिर्वाहादतिरिक्ताधिकरणतासिद्धेर्व श्रलेपायमानत्वात् । न च तदङ्गीकारे तत्तद्विशेषधर्मावच्छिन्ननिरूपिताधिकरणतानामवश्यकल्पनीयानामेव
सत्ताद्यधिकरणता कामादायोपपत्तिं स्पर्येति ।
न च
आलोकप्रकाशः
Acharya Shri Kailassagarsuri Gyanmandir
मित्यपिशब्देन बोध्यते । यद्ययस्य तदभावव्याध्यवत्ताज्ञानमुद्रया स्वरूपसम्बन्धेन रूपाधिकरणत्वसंशयप्रतिबन्धकत्वं सम्भवति, तथापि व्याप्यत्वांशेऽप्रामाण्यदशायामपि तादृशसंशयानुदयात् स्वरूपस्यापि संसर्गस्वमावश्यकम् । एवं सामान्यसमुदायो जातिम"निति प्रतीत्यापत्तिः । वक्ष्यमाणरीत्या तद्वदन्यावृत्तित्वस्य व्यधिकरणसम्वन्धतया तेन सम्बन्धेन जात्यधिकरणत्वाभावस्य सामान्यसमुदायत्वे सत्त्वात्तद्वारणाय स्वरूपस्यापि विधेयसंसर्ग त्वमवइयमभ्युपेयमिति । पर्यवसितमिति । एतेन रूपाधिकरणतानिष्ठ तत्तद्वयक्तित्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदवद् वृत्तित्वेऽपि घटसमुदायत्वस्य न क्षतिः ।
प्रमेयाधिकरणत्वस्य प्रमेयाधिकरणतत्वावच्छिन्नस्य
मनसिकृत्याह - घटसमुदायो व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताया
For Private And Personal Use Only
घटपटौ जातिमन्तावित्यत्र
रूपत्रानितीति । तत्ताअतिरिक्तत्वे
मासमधीत