________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-प्रकाशटिप्पण्यो पबृंहिता नूतनालोकः
त्तिवादे । तथा च घटसमुदायः प्रमेयवानिति प्रतीतेर्नानिर्वाहः, स्वव्यापकतत्कत्वरूपव्याप्तेः प्रसिद्धत्वादिति वाच्यम्; एवमपि घटपटौ जातिमन्ताविति प्रतीतेर निर्वाहात् । तत्र विशेष्यतावच्छेद की भूत द्वित्वसंख्यायां जातिमदन्यनिरूपितोद्देश्यतावच्छेद की भूतद्वित्वसंख्यायां जातिमदन्यनिरूपितोद्देश्यतावच्छेदकता घटकसमवायसम्बन्धावच्छिन्नवृत्तित्वाभावरूपं व्याप्यत्वमुक्तरीत्या संसर्गघटकतया प्रत्येतव्यम् । अन्यथा सम्बन्धसामान्येन वृत्तित्वविवक्षणे घटसमुदायो रूपवानिति प्रतीतेरनुपपत्तेः । तत्र रूपाधि - करणतावदन्यस्मिन् घटसमुदायत्वस्य कालिकसम्बन्धेन वृत्तेः । यत्किञ्चित्सम्बन्धेन तद्विवक्षणे घटपट कम्बुग्रीवादिमन्ताविति प्रतीतेरापत्तेः । तत्रोद्देश्यतावच्छेद की भूतघटपटतद्वित्वस्य कम्बुग्रीवादिमत्त्वशून्ये स्वरूपादिसम्बन्वेनावृतेः । तचाप्रसिद्धम् । जातिमदन्यस्मिन् समवायेन वृत्तित्वरूपप्रतियोग्य प्रसिद्धेरिति । न च घटसमुदायो रूपवानिति प्रतीतौ स्वव्याप्यतादृशसमुदायत्ववत्त्वमपि रूपाधिकरणत्वस्य धर्मिणि सम्बन्धः । व्यासज्यवृत्तिधर्मावच्छिन्नविशेष्यकविशिष्टबुद्धौ स्वव्याप्यतादृशधर्मवत्स्यापि विशेषण सम्बन्धतानियमात् । तथा च घटसमुदायस्तद्रूपवानिति प्रतीतेपत्तिः । घटसमुदायत्वे तद्रूपाधिकरणत्वव्याप्यत्वस्य बाधात् । व्याप्यत्वं चेह न स्वव्याआलोकप्रकाशः
गमेऽपि न क्षतिः । परन्तु ग्रन्थकारैस्तथाभिधानादित्थमभिहितम् । एतदेव सूचयितुमुक्तम्स्पष्टचेदमित्यादि । व्युत्पत्तिवाद इति । आख्यातोपस्थापितद्वित्वाद्यन्वयविचारावसर इति शेषः । घटपटाविति । घटौ जातिमन्तावित्यादिप्रतीतौ पर्याप्तेरेव विशेष्यतावच्छेदकताघटकसम्बन्धत्वेन जातिशून्यनिरूपिततादृशसम्बन्धावच्छिन्नवृत्तित्वस्याप्रसिद्धयभावान्न तादृशप्रतीतेर निर्वाह इत्यभिप्रेत्य घटपटौ जातिमन्ताविति प्रतीतिपर्यन्तानुधावनम् । तत्र चोद्देश्यतावच्छेदकस्य विभक्त्यर्थसंख्यातो न्यून संख्याकत्वविरहेण समवायस्यैव तथात्वमित्याशयः । यदि च व्युत्पत्तिवादोक्तरीत्या घटौ जातिमन्तावित्यादौ घटत्वव्याप्यत्वविशिष्टपर्याप्तेरेव तथात्वमित्युच्यते, तदा घटौ रूपवन्ताविति प्रतीतेरप्यनिर्वाहो बोध्यः । वस्तुतो विशेष्यतावच्छेदकव्याप्यत्वातिरिक्तविशेष्यतावच्छेदकताघटकसम्बन्धतावच्छेदकावच्छिन्नसम्बन्धेन वृत्तित्वाभावविवक्षणे घटपटौ जातिमन्ताविति प्रतीतेरेवानिर्वाहः, न तु घटौ रूपवन्तौ घटौ जातिमन्तावित्यादिप्रतीतेः । तत्र तादृशेन पर्याप्तिसम्बन्धेन रूपवदन्यस्मिन् जातिमदन्यस्मिंश्च वृत्तेर प्रसिद्धयभावात् । अपीति । स्त्ररूपेण रूपाधिकरणत्ववान्न वेति संशयस्य रूपवानिति प्रतीत्युत्तरमसम्भवात् स्वरूपस्यापि संसर्गत्वमावश्यक
For Private And Personal Use Only
३७