________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च रत्नमालिका
नूतनालोकः
धिकरणतत्वान्तर्भावेण समुदायत्वभानासम्भवाश्च । न च स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकत्व सम्बन्धावच्छिन्न स्वनिष्ठावच्छेदकता कप्रतियोगिताकभेदवद्रूपाधिकरणतात्ववत्त्वसम्बन्धेन घटसमुदायत्वादे रूपाधिकरणतायां भानोपगमान्नानुपपत्तिरिति वाच्यम्; तद्रूपत्वावच्छिन्न निरूपितत्वविशिष्टाधिकरणतात्वे स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकत्वसम्बन्धेन
घटसमुदायत्वसत्त्वे तदनतिरिक्तरूपनिरूपितत्वविशिष्टाधिकरणतात्वे तत्सम्बन्धेन घटसमुदायत्ववद्भेदस्य दुर्घटत्वात् । रूपत्वावच्छिन्ननिरूपकताकत्वाधिकरणतात्योभयस्मिन् अधिकरणतत्वविशिष्टरूपत्वावच्छिन्ननिरूपितत्वे वा उक्तभेदवत्त्वविवक्षयापि न निस्तारः, रूपत्वावच्छिन्ननिरूपकताकत्वस्य तद्रूपत्वावच्छिन्ननिरूपकता कत्वानतिरेकात् । न च व्यतिरेकितावच्छेदकधर्मावच्छिन्नस्य यत्र प्रकारता, तत्रैव तद्वदन्यावृत्तित्वरूपव्याप्तेर्भानमुपेयते, अन्यत्र तु स्वव्यापकतत्कत्वरूपव्याप्तेरेव । स्पष्टचेदं व्युत्पआलोकप्रकाशः
भानमित्यस्य साक्षात् परम्परया वा धर्मिनिष्ठविषयतानिरूपितविषयताश्रय एव पारतन्त्र्येण विशेषणस्य भानमित्येवार्थो वक्तव्यः । अन्यथा विद्वान् पूज्यते, विद्वांसं पूजयतीत्यादौ कर्मत्वद्वारा धन्वयि पूजारूपक्रियायां प्रयोज्यतासम्बन्धेन विद्वत्त्वस्य पारतन्त्र्येण भानस्यानुभवसिद्धस्यापापापत्तेः । तथा च प्रकृते धर्मिण्यधिकरणतात्वस्य साक्षादमानेऽपि न तत्र समुदायत्वस्य भानानुपपत्तिरित्यतो दूषणान्तरमाह - स्वरूपतो भासमानेति । वस्त्वन्तरस्य प्रकारतया भानोपगमे निर्विशेषणकभानात्मक स्वरूपतो भानस्य व्याघातप्रसङ्ग इति भावः । स्पष्टं चेदं स्वरूपता वह्नित्वादिविधेयतावच्छेदककावुपमित्यौपयिकव्याप्तिशरीरेऽप्यनवच्छेदकत्वधर्मितावच्छेदकतया वह्नित्वादेः प्रवेशावश्यकता प्रदर्शनावसरे सिद्धान्तलक्षणगादाधर्याम् । तदनतिरिकेति । विशेषणभेदेऽपि विशेषैक्यादिति भावः । अनतिरेकादिति । एतत्पक्षेऽधिकरणतावत्सामान्यधर्मघटितविशेषरूपावच्छिन्ननिरूपकत्वातिरिक्तसामान्यधर्मावच्छिन्न निरूपकताया अप्यनभ्युपगमान्न पर्याप्तिविवक्षासम्भव इति भावः । यदि च रूपत्वाद्यवच्छिन्ननिरूपिताधिकरणतात्वस्य तद्रूपत्वाद्यवच्छिन्ननिरूपिताधिकरणतात्वादनतिरिक्तत्वेऽपि प्रतियोगितावच्छेदकतावच्छेदकतान वच्छेद करूपेण निरुक्तभेदवत्त्वमक्षतमेवेत्युच्यते, तदा तद्रूपत्वावच्छिन्ननिरूपिताधिकरणता त्वेऽपि यत्किञ्चिद्रूपेण निरुक्तभेदवत्त्वस्याक्षततयाऽतिप्रसङ्गतादवस्थ्यमिति बोध्यम् । अन्यत्रेति । वस्तुतस्तु केवलान्वयिधर्मस्य यत्र प्रकारत्वम्, तत्र स्वव्याप्योद्देश्यतावच्छेदकत्वसम्बन्धेन धर्मिणि विशेषणभानानुप
तत्र
For Private And Personal Use Only