________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतना लोकटीका तत्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः
घटसमुदाय
मानतया तादृशसम्बन्धस्य स्वव्यधिकरणतया तत्सम्बन्धावच्छिन्न स्वनिष्ठावच्छेदकताकभेदस्यैवाप्रसिद्धेः । व्यधिकरण सम्बन्धावच्छिन्नावच्छेदकताकभेदस्य सिद्धान्तेऽनङ्गीकारात् । न च समानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकरूपाधिकर णतात्ववत्त्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वसम्बन्धेन घटसमुदायत्वस्य रूपाधिकरणतायामेव भानोपगमान्नोक्तप्रतीतेरनिर्वाहः, व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकात्यन्ताभावस्य सर्वसम्मतत्वादिति वाच्यम्; एवमपि प्रमेयत्वावच्छिन्नाधिकरणतत्वस्य भेदप्रतियोगितावच्छेदकतावच्छेदकत्वासम्भवेन सम्बन्धाप्रसिद्धचा घटसमुदायः प्रमेयवानिति प्रतीतेरनिर्वाहात् । न च व्यतिरेकिप्रकारकस्थल एवोक्तसम्बन्धेन धर्मितावच्छेदकस्य पारतन्त्र्येण भाननियमः, अतो नोक्तदोष इति वाच्यम् ; तथा सति घटसमुदायो रूपवान् घटसमुदायः प्रमेयवानिति प्रतीत्योः संसर्गांशेऽनुभवसिद्धस्यावैलक्षण्यस्यापलापापत्तेः । अधिकमग्रे व्यक्तीभविष्यति । न च समानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकत्वसम्बन्धावच्छिन्न स्वनिष्ठावच्छेद - कताक प्रतियोगिताकभेदवस्वात्मकव्यापकतावच्छेदकत्वसम्बन्धेन त्वादेर्धर्मिपारतन्त्र्येण स्वरूपाधिकरणतात्वे भानमुपेयते । तथा चोक्तभेदप्रतियोगितावच्छेदकतावच्छेदकसम्बन्धस्य समानाधिकरणतया तत्सम्बन्धावच्छिन्न स्वनिष्ठा व च्छेदकताक प्रतियोगिताकभेदस्य प्रसिद्धया न दोष इति वाच्यम्; धर्मिणि यत्र भानं तत्रैव धर्मिपारतन्त्र्येण धर्मिविशेषणतापन्नस्य भानमिति नियमेन प्रकृते धर्मिणः समुदायस्य रूपाधिकरणतत्वेऽभासमानतया तद्विशेषणतापन्न समुदायत्वस्यापि भानासम्भवात् । स्पष्टं चेदं व्युत्पत्तिवादे सन्नर्थविचारावसरे । स्वरूपतो भासमानाआलोकप्रकाशः व्यापकत्वान्वयिनिरूपकत्वं षष्ठ्यर्थः । तात्यादौ घटसमुदायत्वसमानाधिकरणभेद प्रतियोगितावच्छेदकता वच्छेदकत्वप्रसिद्धेरिति व्युत्पत्तिवाद इति । तत्रेत्थमभ्यधायि – “इच्छारूपविशेष्यपारतन्त्र्येण कर्मत्वावयोsपीच्छायां कर्मत्वानन्वयेन दुर्घटः विशेष्यान्वयिन्येव विशेषणस्य पारतन्त्र्येणान्वयस्य विशिष्टान्वयस्थले व्युत्पत्तिसिद्धत्वात्” इति । अत्र धर्मिणि रूपाधिकरणतात्वविशिष्टस्य भाने धर्मपारतन्त्र्येण रूपाधिकरण तात्वमपि तत्र भासत इति धर्मिसम्बन्धितया भासमानत्वं रूपाधिकरणतत्वेऽप्यक्षतमेवेति तत्र धर्मिपारतन्त्र्येणान्वयो निराबाध एवेति यद्युच्यते, तदाप्याहस्वरूपतो भासमानेति । यद्वा धर्मिणो यत्र भानम्, तत्रैव धर्मिविशेषणतापन्नस्य पारतन्त्र्येण
समानाधिकरणतयेति ।
तद्रूपाधिकरण
भावः ।
For Private And Personal Use Only
३५