________________
Shri Mahavir Jain Aradhana Kendra
૩૪
www.kobatirth.org
'नव' रत्नमालिका
नूतनालोकः
Acharya Shri Kailassagarsuri Gyanmandir
अस्मन्मते च बहुत्वावच्छिन्नाधिकरणत्वविषयक मेकविधमेव तथाविधं ज्ञानमित्येक - विधप्रत्यक्षादिकं प्रत्येव तादृशसामग्र्याः प्रतिबन्धकत्वं कल्पनीयमिति लाघवमिति । न च बहूनि रूपवन्तीत्यादिप्रतीतौ धर्मिविशेषणतापन्नबहुत्वादेः स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकप्रकारता वच्छेद की भूतरूपाधिकरणतात्ववस्वसंवन्धा - वच्छिन्न स्वनिष्ठावच्छेदकताक प्रतियोगिताकभेदवत्त्वरूपतयक्तित्वाघटिततद्व्यक्ति व्यापकत्वसम्बन्धेन पारतन्त्र्येणाधिकरणतायां भानमुपेयते । तथा च न काप्यनुपपत्तिः । तद्रूपाधिकरणतायां स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकतद्रूपाधिकरणतात्ववत्त्वसम्बन्धेन सर्वस्यापि बहुत्वस्य सत्त्वात् कस्या अपि बहुत्वव्यक्तेस्तेन सम्बन्वेन स्वावच्छिन्नभेदवत्त्वरूपव्यापकत्वविरहादिति वाच्यम् ; एवं सति घटसमुदायो रूपवानिति प्रतीतेरनिर्वाहात्, घटसमुदायत्वादेः स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकरूपाधिकरणतात्ववत्त्वसम्बन्धेन कुत्राप्यवर्त -
आलोकप्रकाशः
प्रत्यक्षस्य स्वनिरूपकत्वेऽपि स्वनिरूपकत्वव्याप्यपटप्रत्यक्षत्वावच्छिन्नविषयताकेच्छाविशिष्टत्वेन द्वितीयसम्बन्धाभावान्न प्रतिवध्यतावच्छेदकाक्रान्तत्वम् । एवं प्रत्यक्षकालीनवह्निप्रत्यक्षं जायतामितीच्छायाः पटप्रत्यक्षीय मुख्यविशेष्यतानिरूपकत्वव्याप्यधर्मावच्छिन्नविषयताकत्वं नास्ति । प्रत्यक्षत्वस्य तादृशनिरूपकत्वव्यापकत्वादिति तादृशेच्छाकाले तादृशप्रत्यक्षस्य प्रतिवध्यतावच्छेदकाक्रान्तत्वमिति वाच्यम् ; एवमपि पट प्रत्यक्षसमानकालीन वह्निप्रत्यक्षं जायतामितीच्छाकाले पटप्रत्यक्षापत्तेः । शाब्दातिरिक्तं ज्ञानं जायतां प्रत्यक्षं जायतामित्यादीच्छासत्त्वे प्रत्यक्षानुपपत्तेश्च । तथा चोत्तेजकाननुगमान्नानुगतप्रतिवध्यप्रतिबन्धकभावनिर्वाहः । एतदेवाभिप्रेत्य " अन्यादृशप्रत्यक्षस्थलीयप्रतिबन्धकतया च न त्वन्मते निर्वाहः, अन्यत्रान्यविधप्रत्यक्षेच्छानामुत्तेजकतया" इत्युक्तं व्युत्पत्तिवाद इत्यलं पल्लवितेन । एकविधेति । न च तद्बहुत्ववन्ति रूपवन्तीति प्रत्यक्षे तद्बहुत्वव्यापकत्वस्य संसर्गकोट भानातादृशप्रत्यक्षं प्रति च भिन्नविषयक शाब्दसामग्याः प्रतिबन्धकत्वस्य सर्वैरङ्गीकरणीयतया तत्प्रतिबन्धकत्वेनैव प्रकृतेऽपि निर्वाहान्नाधिककल्पनेति वाच्यम् ; तत्र तद्वयक्तित्वस्य प्रकारतयापि भानान्न तस्य बहूनि रूपवन्तीति प्रत्यक्षसमानाकारत्वमिति तेन प्रकृते न निर्वाह इति प्रतिबन्धकत्वान्तरकल्पनाया आवश्यकत्वात् । भेदप्रतियोगितावच्छेदकतावच्छेदकेति । अत्र स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमात्रस्य भेदप्रतियोगितावच्छेदकतावच्छेदकसम्बन्धत्वविवक्षणे कस्या अपि रूपाधिकरणत्वव्यबहुत्वव्यक्तिव्यापकत्वानिर्वाह इति तदुपेक्षा | बहुस्वन्यतेरिति ।
For Private And Personal Use Only