________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
आलोकप्रकाशः त्वात् । नापि स्वजन्यतावच्छेदकविषयिताशून्यत्वं तत् ; घटपटावगाहिसमूहालम्बनप्रत्यक्षस्यासंग्रहापत्तेः । न चेष्टापत्तिः, तस्यातिरिक्तविषयकतया समानविषयकत्वाभावात् । नापि तद्रूपावच्छिन्नविशेष्यतानिरूपिततद्रूपत्वावच्छिन्नप्रकारताकत्वसमानाधिकरणाभावप्रतियोगितावृत्तिरूपावच्छिन्ननिरूपितविषयितापर्यवसन्ना याऽव्यापकविषयिता तच्छालित्वम् । वृत्तित्वञ्च स्वावच्छिन्ननिरूपितविषयितात्वावच्छिन्नत्वसम्बन्धेन । भूतलं घटवदिति शाब्दसामग्या घटवदिति निर्मितावच्छेदककप्रत्यक्षं प्रति प्रतिबन्धकत्वानुपपत्तेरिति चेन्न; तद्रूपावच्छिन्नविशेष्यतानिरूपिततत्संसर्गावच्छिन्नतद्रूपावच्छिन्नप्रकारत्वावच्छिन्नभेदप्रतियोगितानवच्छेदकविषयताकप्रत्यक्षत्वं तद्रूपावच्छिन्नप्रकारतानिरूपिततद्रूपावच्छिन्नविशेष्यतान्यमुख्यविशेष्यताशालिप्रत्यक्षत्वं वा तद्रूपावच्छिन्न विशेष्यतानिरूपिततत्संसर्गावच्छिन्नतद्रूपावच्छिन्नप्रकारताकशाब्दसामग्रीप्रतिवध्यतावच्छेदकम् । अथवा स्वजन्यतानवच्छेदकसावच्छिन्नविषयताशालिप्रत्यक्षत्वं शाब्दसामग्रीप्रतिवध्यतावच्छेदकमित्यनुगमसम्भवादिति चेत् , सत्यम् । भिन्नविषयकत्वस्योक्तरीत्याऽनुगतत्वेऽपि भिन्नभिन्नेच्छानामुत्तेजकतया न तस्य प्रतिवध्यतावच्छेदकत्वसम्भवः। घटवद् भूतलमित्यादिशाब्दसामग्याः पटवद् भूतलमित्यादिप्रत्यक्षसामग्याश्च सत्त्वे भूतले पटप्रत्यक्षं जायतामित्यादीच्छादशायामनुभवसिद्धस्य तादृशप्रत्यक्षस्य निर्वाहार्थ सामान्यतः प्रत्यक्षेच्छाविरहविशिष्टत्वेन शाब्दसामग्रीविशेषणे वह्निप्रत्यक्षं जायतामित्यादीच्छायामपि तादृशप्रत्यक्षापत्तिरिति विशिष्य पटवद् भूतलादिविषयकत्वावच्छिन्नविषयताकप्रत्यक्षेच्छाविरहविशिष्टत्वेन सामच्या विशेषणीयत्वादिति । न चेच्छाविशिष्टान्यत्वे सति तद्धर्मावच्छिन्नप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यतान्यमुख्यविशेष्यताशालिप्रत्यक्षत्वस्यानुगतस्यैवः तद्धर्मावच्छिन्नप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालिशाब्दसामग्रीप्रतिवध्यतावच्छेदकत्वं कल्प्यते । तथा च चान्यप्रत्यक्षेच्छाकाले न पटप्रत्यक्षापत्तिः। इच्छावैशिष्ट्यञ्च आधेयताविशिष्टाधेयत्वपर्यवसितैकक्षणावच्छिन्नैकात्मवृत्तित्व विषयत्वोभयसम्बन्धेन । आधेयतावैशिष्ट्यञ्च खनिरूपकनिरूपितत्व-स्वावच्छेदकक्षणावच्छिन्नत्वोभयसम्बन्धेनेति वाच्यम् ; एवमपि प्रत्यक्षकालीनवह्निप्रत्यक्षं भूयादितीच्छादशायां पटप्रत्यक्षापत्तेारत्वात् । नहीच्छावैशिष्ट्यघटकविषयित्वस्थाने मुख्यविशेष्यत्वविवक्षया नोक्तापत्तिरिति शक्यते वक्तुम् ; एवं सति पटप्रत्यक्षोत्पत्तिर्भवतु इतीच्छादशायां पटप्रत्यक्षानुत्पादप्रसङ्गात् । न च पूर्वोक्तमुख्यविशेष्यताविशिष्टप्रत्यक्षत्वस्य प्रतिवध्यतावच्छेदकत्वोपगमान्न दोषः। वैशिष्ट्यञ्च स्वनिरूपकत्व-स्वनिरूपकत्वव्याप्यधर्मावच्छिन्नविषयताकेच्छाविशिष्टत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धेन । एवञ्च पटप्रत्यक्षं जायतां पटप्रत्यक्षोत्पत्तिर्भवतु इत्यादीच्छाकाले स्वपदेन प्रत्यक्षीयपटनिष्ठमुख्यविशेष्यताग्रहणे तादृश
For Private And Personal Use Only