________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. 'न च' रत्नमालिका
नुतनालोकः भेदेन भिन्नभिन्नतयक्तित्वावच्छिन्ननिरूपितव्यापकत्वानां संसर्गतया भानमौचित्यादवर्जनीयमिति तादृशप्रतीतीनामेकाकारत्वमङ्गः । तादृशविभिन्नाकारकप्रत्यक्षादिव्यक्तीः प्रति प्रत्येकं भिन्नविषयकशाब्दसामन्यादीनां प्रतिबन्धकत्वकल्पनापत्त्या महागौरवं च ।
आलोकप्रकाशः तद्वयक्तित्वघटितधर्मावच्छिन्नव्यापकत्वं संसर्गविधयैव भासत इति न तत्र प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानापेक्षेति वाच्यम् ; अवच्छेदकावच्छेदेन धूमावगाहिन्या वह्निमान् धूमवानिति बुद्धरिणाय अन्वयितावच्छेदकरूपावच्छिन्नव्यापकत्वस्यैव भानमित्यस्यावश्यमङ्गीकर्तव्यत्वात् । न चैवं सति "शरदि पुष्पन्ति सप्तच्छदाः” इत्यादौ सप्तच्छदपुष्पोत्पत्तित्वादिकं नान्वयितावच्छेदकम् । आख्यातान्तप्रतिपाद्यतावच्छेदकपुष्पोत्पत्तित्वं त्वन्वयितावच्छेदकमपि न शरवृत्तित्वव्याप्यमित्यवच्छेदकावच्छेदेनान्वयानुपपत्तिः। सामानाधिकरण्यमात्रेण तदन्वयोपगमे तु शरदि पुष्पन्ति सप्तच्छदाः, शरदि पुष्पन्ति चम्पका इत्यविशेषेण प्रयोगापत्तिरिति वाच्यम् ; यतः साक्षादर्थतो वा लब्धधर्मावच्छिन्नव्यापकत्वमेव भासते, न त्वतथाविधधर्मावच्छिन्नव्यापकत्वमित्येव नियमः । तथा च सप्तच्छदपुष्पोत्पत्तित्वस्य साक्षाद्विशेषणत्वाभावेऽप्यर्थाद्विशेषणत्वेन तदवच्छिन्नव्यापकत्वभाने बाधकाभाव इति। प्रत्यक्षादीत्यादि । अत्रादिपदाभ्यां समानविषये प्रत्यक्षसामग्रीप्रतिबन्धकत्वेऽपि गौरवमिति लभ्यते । अत एव महेत्युक्तम् । शाब्दप्रतीतौ संसर्गप्रकारकतात्पर्यज्ञानस्यैव हेतुतया तदभावात्तथाविधशाब्दप्रतीत्यनिर्वाहोऽपि बोध्यः । अथ भिन्नविषयकशाब्दसामय्यां घटादिप्रत्यक्षप्रतिबन्धकत्वं सर्वैरप्यवश्यमङ्गीकर्तव्यम् । तत्प्रतिबध्यतावच्छेदकं न घटादिप्रत्यक्षत्वं गौरवात् , किन्तु भिन्नविषयकप्रत्यक्षत्वम् । तस्य च नानाविधव्यापकत्वावगाहिप्रत्यक्षसाधारणतया तादृशप्रतिबन्धकत्वेनैव निर्वाहे संसर्गभेदेन भिन्न-भिन्नप्रतिबन्धकत्वकल्पनस्यानावश्यकतया नोक्तगौरवावकाशः। ननु भिन्नविषयकप्रत्यक्षत्वमनुगतानतिप्रसक्तं दुर्वचम् । तद्धि न स्वजन्यशाब्दबोधाविषयकप्रत्यक्षत्वम् ; सर्व प्रमेयमित्यादि शाब्दसामग्यास्तादृशशाब्दबोधाविषयाप्रसिद्धया घटादिप्रत्यक्षप्रतिबन्धकत्वानुपपत्तेः । नापि स्वजन्यशाब्दबोधावृत्तिविषयताश्रयप्रत्यक्षत्वम् ; घटादिशब्दसामण्याः पटादिप्रत्यक्षप्रतिबन्धकत्यानुपपत्तेः, ज्ञानभेदेन विषयिताभेदस्याप्रामाणिकतया तद्विवयिताया अपि पटाद्यवगाहिस्वजन्यसमूहालम्बनवृत्तित्वात् । न च स्वजन्ययत्किञ्चिच्छाब्दबोधावृत्तित्वविवक्षणान्नानुपपत्तिरिति वाच्यम् ; एवं सति घटशाब्दसामग्या घटप्रत्यक्षप्रतिबन्धकत्वापत्तेः। घटत्वेन तद्धटविषयकशाब्दबोधव्यक्तिमादाय तदन्यघटविषयितानाम् , एवं घटत्वेन तदन्यघटविषयकयत्किञ्चिच्छाब्दबोधव्यक्तिमादाय तदरविषयितायाश्च यत्किञ्चिच्छाब्दबोधावृत्तित्वस्योपपादयितुं शक्य
For Private And Personal Use Only