________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः वादे । न चास्यां प्रतीतौ घटत्वव्यापकत्वमेवाधिकरणतायां भासते, न तु घटसमुदायत्वावच्छिन्नत्वम् । तच सामान्यधर्मावच्छिन्ननिरूपिताधिकरणतात्वावच्छिन्नमक्षतमेवेति वाच्यम्; तद्धर्मावच्छिन्नविशेष्यकविशिष्टबुद्धौ विशेषणे विशेषणसंसर्गे वा तदेकदेशव्यापकत्वभानानुपगमेन तद्भानस्यासम्भवात् । न च तर्हि घटसमुदायत्वव्यापकत्वभानमेवोपेयताम् , तथा च घटसमुदायस्तद्रूपवानिति प्रतीतेपित्तिरिति वाच्यम्, घटो रूपवानिति प्रतीतौ घटत्वावच्छिन्नत्वमधिकरणतायां भासते, घटसमुदायो रूपवानित्यत्र तु घटसमुदायत्वावच्छिन्नत्वं न भासत इत्यभ्युपगमेऽनुभवविरोधात् , बहूनि रूपवन्तीति प्रतीतेरनिर्वाहाच्च । तथा हि-अत्र बहुत्वावच्छिन्नव्यापकत्वं रूपत्वावच्छिन्नाधिकरणतायां भासत इति न युक्तम् , रूपाधिकरणताया वाय्वादिसाधारणबहुत्वत्वावच्छिन्नाव्यापकत्वात् । यत्किश्चिदेकबहुत्वत्वावच्छिन्नव्यापकता भासत इत्यपि न, तत्तद्वयक्तित्वेन बहुत्वानुपस्थितेः। किञ्च, बहुत्व
आलोकप्रकाशः लघुत्वात् । किञ्च, समुदायत्वपर्याप्तः प्रत्येकावृत्तित्वानङ्गीकारपक्षे आकाशमात्रविषविण्याः समुदायः शब्दवानित्यादिप्रतीवर्धमत्वमशक्योपपादनम् । अतः समुदायत्वावच्छिन्नातिरिक्ताधिकरणता अङ्गीकर्तव्या, तदङ्गीकारे च शब्दनिरूपिताधिकरणतायाः पर्याप्तिसम्बन्धेनावच्छेदकत्वं समुदायत्वे नास्तीति तद्भाने भ्रमत्वं सूपपादमिति ज्ञेयम् । एतेन दर्शितनियमशरीरे व्यासज्यवृत्तिधर्माश्रयत्वेन ज्ञातयावद्वयक्तिसम्बन्धमानमिति घटने आकाशसमुदायः शब्दवानित्यत्र आकाशस्यैव समुदायत्वाश्रयत्वेनोपस्थिततया तद्भाने उक्तनियमभङ्गाभावेन अधिकरणत्वान्तराङ्गीकारो व्यर्थ इत्याक्षेपो निरस्तः। व्युत्पत्तिवाद इति । आख्यातोपस्थापितद्वित्वाद्यन्वयविचारावसर इति शेषः। घटत्वावच्छेदेन द्रव्यत्वावगाहिन्यां घटो द्रव्यमित्यादिप्रतीतौ स्वरूपत उपस्थिते द्रव्यत्वे घटत्वव्यापकत्वभानानुपपत्तिरित्यत आहविशेषणसंसर्गे वेति । भानानुपगमेनेति नीलभूतलं घटाभावदिति प्रतीत्यनन्तरं पीतभूतलं घरवदिति प्रतीतेः, चैत्रीयघटसमुदायो रूपवानिति प्रतीत्यनन्तरं घटो रूपवान्न वेति संशयस्य चानुपपत्तेरिति भावः। घटत्वावच्छिन्नत्वमिति । स्वरूपसम्बन्धविशेषरूपमित्यादिः। अनुभवे विवदमानं प्रत्याह-बहूनीति । अनिर्वाहाचेति । बहुत्वसामानाधिकरण्यमात्रभानोपगमे बहूनि तद्रूपवन्तीति प्रतीत्यापत्तिरिति ध्येयम् । भनुपस्थितेरिति । तथा च प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानरूपकारणाभावेन न तत्र व्यापकत्वात्मकामावभानसम्भव इति भावः। न च
For Private And Personal Use Only