________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
30
'न' रत्नमालिका वाच्यम्; घटसमुदायो रूपवानिति प्रतीतेरेव मानत्वात् । तथाहि अस्यां प्रतीतौ काचन समुदायत्वावच्छिन्नाधिकरणता भासते। सा च न तद्रूपत्वाद्यात्मकसामान्यधर्मघटितविशेषधर्मावच्छिन्ननिरूपिता भवितुमर्हति, तस्या घटसमुदायस्तद्रूपवानिति प्रतीत्यभावेन, घटसमुदायत्वेनानवच्छेदादिति समुदायत्वावच्छिन्ननिरूपिताधिकरणतावदतिरिक्तैव सा वक्तव्येत्यनया प्रतीत्या तत्सिद्धिरित्याहुः।
नूतनालोकः प्रकरणेऽप्यभिधानात् । समुदायत्वावच्छिन्ननिरूपिताधिकरणतावदिति । अस्या अनतिरिक्तत्वे तु यत्किश्चिद्बटवत्यपि घटसमुदायवदिति प्रतीत्यापत्तिरिति भावः। स्पष्टं चास्या अतिरिक्तत्वम् 'एकावच्छेदेन यावद्विशेषाभाववत्त्वस्योपाधित्वात्' इति पतिव्याख्यानावसरे सिद्धान्तलक्षणगादाधर्याम् । तत्सिद्धिरितीति । अथास्यां प्रतीतावधिकरणतायां समुदायत्वावच्छिन्नत्वं न भासते, किन्तु यावद्वयक्तिषु समुदायत्वपर्याप्तिस्तावद्वयक्तिसम्बन्ध एव, व्यासज्यवृत्तिधर्मावच्छिन्नविशेष्यताकबुद्धौ विशेषणे तदाश्रययावद्वयक्तिसम्बन्धमाननियमात्। तथा च घटसमुदायस्तद्रूपवानिति प्रतीते पत्तिः, तपाधिकरणतायां यावद्धटसम्बन्धबाधादिति चेन्न, आकाशस्य बहुत्वग्रहवतः पुरुषस्यैकव्यक्तिमात्रविषयकस्याकाशसमुदायः शब्दवानिति ज्ञानस्योत्पादेन तादृशनियमस्यासम्भवदुक्तिकतया समुदायत्वावच्छिन्नत्वभानस्यावश्यकत्वात् । स्पष्टं चेदं व्युत्पत्ति
आलोकप्रकाशः . पपत्तिः । व्याख्यायाम् --तावद्वयक्तिसम्बन्ध एवेति । घटसमुदायो रूपवानित्यत्र रूपनिष्ठतत्तद्वयक्तित्वावच्छिन्ननिरूपिताधिकरगतासु प्रत्येकं यावद्धटसम्बन्धबाधेऽपि विशेषणतावच्छेदकीभूतरूपत्वावच्छिन्ननिरूपिताधिकरणतात्वरूपसामान्यधर्मावच्छिन्ने तदबाधेन न तत्प्रतीत्यनुपपत्तिरिति भावः । प्यासज्यवृत्तिधर्मावच्छिन्नेति । अत्रावच्छेदकता पर्याप्तिसम्बन्धावच्छिन्ना ग्राह्या। तेन समवायेन समुदायत्ववानाकाशः शब्दवानिति प्रतीतेः प्रमात्वोपपत्तिः। असम्भवदुक्तिकतयेति । अथ उक्तनियमशरीरे व्यासज्यवृत्तिधर्माशे भ्रमासत्त्व इत्यपि निवेश्यते । एवञ्च तादृशभ्रमजनकदोषाभावस्यापि यावदाश्रयविषयकबुद्धित्वावच्छिन्नसामग्यां प्रवेशान्नात्र भ्रमानुपपत्तिः, आकाशे बहुत्वभ्रमस्थले तजनकदोषसत्त्वादिति चेन्न; अन्यांशे भ्रमजनकदोषाभावस्यापि तद्रूपादिप्रकारकयावदाश्रयविषयकबुद्धित्वावच्छिन्नसामग्रीकुक्षौ घटनापेक्षया समुदायत्वावच्छिन्नाधिकरणत्वाङ्गीकारस्यैव
For Private And Personal Use Only