________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नूतनालोकटीका तत्प्रकाश टिप्पण्योप बृंहिता
कत्वरूपस्य विवक्षया दोषानवकाशात् । प्रकृते हेतुतावच्छेदकावच्छिन्नहेतुनिष्ठाधेयतायाः प्रमेयान्तर्गततया घटनिष्ठपूर्वोक्ताधिकरणतानिरूपकत्वेऽपि हेतुतावच्छेदकावच्छिन्नाधेयतात्वेन रूपेण तदभावात् ।
Acharya Shri Kailassagarsuri Gyanmandir
एतेन अधिकरणतायां हेतुतावच्छेदका नवच्छिन्नाधेयत्वानिरूपित्वस्य विवक्षणान्न प्रमेयत्वाद्यवच्छिन्नाधेयतानिरूपिताधिकरणतामादायाव्याप्त्यवकाशः ।
कूट एव
२९
(१४) * न चैवं वाच्यत्वादौ साध्ये वृत्तिहेतावव्याप्तिः, तत्र हेतुतावच्छेदकावच्छिन्नाधेयतानिरूपिताधिकरणतायां हेतुतावच्छेदकानवच्छिन्नघटत्वाद्यवच्छिन्नाधेयत्वरूप हेतुनिरूपितत्वनियमादिति वाच्यमः हेतुतावच्छेदकावच्छिन्नाधेयताभिन्नं यद्धेतुतावच्छेदकाभाववत्, तदनिरूपितत्वस्य तादृशाधेयताभिन्नस्वाभाववश्न्निरूपितत्वसम्बन्धावच्छिन्नहेतुतावच्छेदकनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वपर्यवसितस्य हेत्वधिकरणतायां विवक्षणेनाव्याप्त्यनवकाशादिति निरस्तम्, गौरवात् ।
(१५) * न च * सामान्यधर्मघटितविशेषधर्मावच्छिन्नाधिकरणताकूटादेव सामान्यधर्मावच्छिन्नवत्ताप्रत्ययोपपत्तेः शुद्धसामान्यधर्मावच्छिन्ननिरूपितायामतिरिक्तायामधिकरणतायां मानाभावः । स्पष्टं चेदं व्युत्पत्तिवाद इति
नूतनालोकः
1
विवक्षयेति । हेतुतावच्छेदकावच्छिन्नाचेयता निरूपितेत्यनेनेत्यादिः । हेतुतावच्छेदका वच्छिन्नाधेयताभिन्नमिति । अत्र हेतुतावच्छेदकावच्छिन्नत्वोपादानाद्विशिष्टसत्ता हेतु के सत्तात्वावच्छिन्नाधिकरणताव्यावृत्तिः । वाच्यं प्रमेयादित्यादी हेतुतावच्छेदकाभावाप्रसिद्धयाऽव्याप्तेराह - तादृशेति । सामान्यधर्मघटितविशेषेति । अयं धर्मस्तद्घटत्वतत्पटत्वादिरूपो बोध्यः, तद्बटवदिति प्रतीतौ घटत्वस्याप्याधेयतावच्छेदकत्वावगाहनात् । तद्वयक्तित्वरूपविशेषधर्ममात्रस्याधेयतावच्छेदकत्वे तादृशप्रतीत्यनिर्वाह इत्यत उक्तम्सामान्यधर्मघाति । मानाभाव इति । तथा च हेतुतावच्छेदकावच्छिन्नत्वनिवेशनस्योक्तरीत्या सार्थक्यं न घटतं इति भावः । व्युत्पत्तिवाद इति । अत्यन्तसंयोगविचारावसर इति शेषः । इदमुपलक्षणम्, “विशेषधर्मावच्छिन्नाधिकरणताभ्यः सामान्यधर्मावच्छिन्नाधिकरणताया अतिरिक्ताया अनभ्युपगमात् क्लृप्ताधिकरणतासामान्यधर्मावच्छिन्ननिरूपितत्वोपगमादिति" इति सामान्यलक्षणा -
For Private And Personal Use Only