________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ
'न च रत्नमालिका (१२) * न चा*तिरिक्तसामान्यधर्मावच्छिन्नाधिकरणत्वाङ्गीकारे आधेयतायां तन्निवेशेऽपि वह्निमान् धूमादित्यादावव्याप्तिस्तदवस्थैव, धूमधूमत्वावच्छिन्नाधेयत्वसाधारणप्रमेयत्वादिसामान्यधर्मावच्छिन्न निरूपितायां हृदनिष्ठाधिकरणतायां हेतुनिरूपितत्वस्य हेतुतावच्छेदकावच्छिन्नाधेयतानिरूपितत्वस्य च सत्त्वात् । यदि संयुक्तस्यैव प्रमेयस्य संयोगसम्बन्धावच्छिन्नाधारतानिरूपकत्वम् ; तदा वह्निमान् धूमाधिकरणत्वादित्यादौ धूमाधिकरणत्व-धूमाधिकरणत्वत्वावच्छिन्नाधेयत्वसाधारणप्रमेयत्वाद्य वच्छिन्ननिरूपितां तथाविधाधिकरणतामादायाव्याप्तिरिति वाच्यम् *; स्वनिष्ठहेतुतावच्छेदकावच्छिन्नाधेयतानिरूपकत्वस्वनिरूपितत्वोभयसम्बन्धेन हेतुविशिष्टाधिकरणत्वविवक्षणादव्याप्त्यनवकाशात् ।
(१३) * नचैवमपि घटत्वाभावे साध्ये प्रमेयं प्रमेयवदिति प्रतीतिसिद्धायाः स्वरूपसम्बन्धावच्छिन्नप्रमेयत्वावच्छिन्नाधेयताया हेतुत्वेऽव्याप्तिः, घटनिष्ठा या प्रमेयं प्रमेयवदिति प्रतीतिसिद्धाधिकरणता सा प्रमेयत्वावच्छिन्नाधेयतानिरूपितत्वाद्धेतुनिरूपिता, तादृशाधिकरणता प्रमेयत्वावच्छिन्नाधेयतावतीति प्रतीत्या अधिकरणविधया प्रमेयत्वावच्छिन्नाधेयतात्वरूपहेतुतावच्छेदकावच्छिन्नाधेयतानिरूपिका चेति तव्यावृत्तेरिति वाच्यम् । प्रथमसम्बन्धस्य खनिष्ठा या हेतुतावच्छेदकावच्छिन्नाधेयता, तादृशाधेयतात्वावच्छिन्ननिरूपकता
नूतनालोकः मावश्यकम् । अन्यथा पर्वतादौ धूमाद्यवगाहिन्या द्रव्यं द्रव्यवदिति प्रतीतेरनिर्वाहप्रसङ्गादिति भावः । ह्रदनिष्ठाधिकरणतायामिति । द्रव्यं संयोगेन प्रमेयवदिति प्रतीतिसिद्धायामित्यादिः । संयुक्तस्यैवेति । एवकारेणासंयुक्ते आधेयताया व्यवच्छेदः । तथा च ह्रदनिष्ठाधिकरणतायां धूमत्वावच्छिन्नाधेयतानिरूपितत्वविरहान्नाव्याप्तिरिति भावः ।
आलोकप्रकाशः तायामाधेयतानिरूपितत्वेऽपि तन्निरूपकत्वाभावादिति भावः। अत्राधेयतात्वेनाधेयताया अप्रवेशे वह्निमान् धूमाधिकरणत्वादित्यादौ निरुक्तोभयसम्बन्धेन हेतुविशिष्टं धूमाधिकरणत्वनिष्ठं प्रमेयत्वावच्छिन्नाधिकरणत्वमादायाव्याप्तिः। तथाहि-प्रमेयं प्रमेयवदिति प्रतीतिसिद्धा या प्रमेयत्वावच्छिन्नाधिकरणता तस्या यावत्प्रमेयान्तर्गतहेतुनिरूपितत्वात् प्रथमसम्बन्धोपपत्तिः, धूमाधिकरणत्वं प्रमेयत्वावच्छिन्नाधिकरणत्ववदिति प्रतीतौ प्रकारतया भासमानप्रमेयत्वावच्छिन्नाधिकरणत्वे आधेयविधया हेतुनिष्ठधूमाधिकरणतात्वावच्छिन्नाधिकरणतानिरूपकत्वाद् द्वितीयसम्बन्धो
For Private And Personal Use Only