________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका तत्प्रकाशटिप्पण्योपशृंहिता केचित्तु सामान्यधर्मावच्छिन्नाधारत्वाधेयत्वयोरतिरिक्तत्वाद्वह्निमान् धूमादित्यादौ धूमनिष्ठद्रव्यत्वावच्छिन्नाधेयतानिरूपितद्रव्यत्वाद्यवच्छिन्नाधिकरणतावत्त्वं हृदस्यापीत्यव्याप्त्यापत्त्या आधेयतायां हेतुतावच्छेदकावच्छिन्नत्वनिवेशनमावश्यकम्।
नूतनालोकः विशिष्टसत्तावगाहिज्ञानस्य वैलक्षण्यनिर्वाहाथं धर्मिपारतन्त्र्येणेति, तथा च विशिष्टवैशिष्टयावगाहिज्ञानीययोर्विशेषणतावच्छेदकनिष्ठधर्मिद्वयनिरूपितप्रकारतयोरवच्छेद्यावच्छेदकभावो धर्मिपारतन्त्र्याभिधः स्वीक्रियते, उक्तसमूहालम्बनीययोस्तु तयोस्तदस्वीकाराद्वैलक्षण्यं निर्वहतीति भावः । ये तु विशिष्टहेतुकस्थले विशिष्टप्रतियोगिकसम्बन्धस्य हेतुतावच्छेदकसम्बन्धत्वेऽपि हेतुतावच्छेदकावच्छिन्नत्वनिवेशनं सार्थकयन्ति; तन्मतमुपन्यस्यति-केचित्त्विति । अतिरिक्तत्वादिति। विशेषधर्मावच्छिन्नाधाराधेयभावादित्यादिः। द्रव्यत्वाद्यवच्छिन्नाधिकरणतावत्त्वमिति । ह्रदो द्रव्यवानिति प्रतीतिसाक्षिकहदत्वावच्छिन्नाधिकरणतायां ह्रदमात्रवृत्तिद्रव्यनिरूपितत्वोपगमसम्भवान्न धूमनिरूपितत्वाश्यकतेति द्रव्यत्वावच्छिन्नेत्युक्तम् । एवञ्च द्रव्यं द्रव्यवदिति प्रतीतिसाक्षिकद्रव्यत्वावच्छिन्नाधिकरणतायां धूमादिनिरूपितत्व
मालोकप्रकाशः पूर्वमुपस्थिोरावश्यकतया तदात्मकसामग्रीसत्त्वाद् गुणीयत्वे प्रकारत्वापत्तिरिति वाच्यम् ; घटभूतलसंयोगेषु निर्विकल्पकरूपोपस्थिोस्तुल्य वेऽपि यथा कदाचिद् भूतलस्य विशेष्यत्वमेव, संयोगस्य संसर्गत्वमेवेत्यत्रादृष्टविशेषस्यैव नियामकत्वमवश्यं वक्तव्यम् , तथात्रापि गुणीयत्वे विशेषणत्वमेव, न तु प्रकारत्वमित्यस्य सूपपादत्वादित्याहुः । तथा च संसर्गाशे भातस्य विशेषणस्याबाधे यथा प्रमात्वम् , तथा तस्य बाधे भ्रमत्वमपि । यथा च विशिष्टसंसर्गभानप्रयोजिका गुणसहिता तदुपस्थितिमन्तरेणैव तदंशे प्रमामुत्पादयति, तथा दोषसहिता भ्रममपि । तन्निष्ठप्रकारताघटिततद्विशिष्टबुद्धित्वस्य तदुपस्थितिकार्यतावच्छेदकस्य तत्राभावेन तदुपस्थितेरनपेक्षणादिति । अत एव सम्बन्धांशे भ्रमत्वस्वीकारादेव। इति गदाधरोक्तिरिति । इयमुक्तिरेकत्वपर्याप्तिमनभ्युपगम्य । तदभ्युपगमे तु आकाशत्वव्याप्यत्वविशिष्टपर्याप्तेः प्रसिद्धथा व्यधिकरणेन तेन सम्बन्धेन द्वित्वादिभ्रमत्वस्य तत्रोपपादयितुं शक्यत्वात् । तदभ्युपगमपक्षेऽपि सम्बन्धांशे भ्रमत्वस्य सिद्धान्तसिद्धतां प्रदर्श यितुमाह-गुणीयेति । व्याख्यायां धर्मिपारतन्त्र्याभिध इति । अवच्छेद्यावच्छेदकभाव एव धर्मिपारतन्यपदार्थ इति विषयतावादे स्पष्टम् । मूलेऽज्याप्स्यनवकाशादिति। अधिकरण
For Private And Personal Use Only