________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रस्नमालिका (११) * न च * तथापि जन्यगुणत्वसाध्यके समवायकालिकोभयसम्बन्धेन गुणत्वहेतावव्याप्तिः, तत्र कालिकस्यापि हेतुतावच्छेदकसम्बन्धतया साध्यशून्यघटादेरप्युक्त हेत्वधिकरणत्वापत्तेरिति तद्विवक्षणस्यावश्यकतया हेतुतावच्छेदकावच्छिन्नत्वविशेषणं व्यर्थमेवेति वाच्यम्; यतो विशिष्टवैशिष्टयावगाहिज्ञाने सर्वत्र विशेषणस्य शुद्धसम्बन्धेनैव भानम् , विशेषणताषच्छेदकम्यापि धर्मिपारतन्त्र्येण विशेषणर्मिणि भानमुपेयते । अत एव विशेष्ये विशेषणमिति रीत्या जायमानशानाद्विशिष्टवैशिष्टयावगाहिज्ञानस्य वैलक्षण्यमिति विशेषरूपेण संसर्गत्वं सम्बन्धांशे भ्रमत्वं चाप्रामाणिकमिति नवीनमते विशिष्टसत्ताहेतुकस्थले शुद्धसमवाय एव हेतुतावच्छेदकसम्बन्धः । स्पष्टं चेदं सिद्धान्तलक्षणगादाधर्याम् । तथा चोक्ताव्याप्तिरिति तद्विशेषणसार्थक्यसम्भव इति ।
नूतनालोकः प्रायः। विशेषरूपेणेति। विशिष्टप्रतियोगिकत्वघटितरूपेणेत्यर्थः। सिद्धान्तलक्षणगादाधर्यामिति । 'इत्थश्चेदं द्रव्यं गुणकर्मान्यत्वे सति सत्वात्' इत्यादिदीधितिपतिव्याख्यानावसरे इति बोध्यम् । स्वातन्त्र्येण गुणकर्मान्यत्ववैशिष्टयं विशेष्ये विशेषणमिति रीत्या गुणकर्मान्यत्वविशिष्टसत्तां च धर्मिण्यवगाहमानसमूहालम्बनाद् गुणकर्मान्यत्व
मालोकप्रकाशः तद्विशिष्टबुद्धिसामान्ये तदुपस्थितेरपेक्षितत्वे संसर्गाशे प्रमात्वमपि न स्यात् , अनुपस्थितस्यैव धर्मस्य तदंशे भानात् । न चेष्टापत्तिः, निर्विकल्पकातिरिक्तज्ञानस्य स्वविषये प्रमात्वभ्रमत्वान्यतरवत्त्वनियमात् । तदंशे विशेषणीभूय भासते, तदबाधितञ्च, ज्ञानन्तु न तत्र प्रमेति विप्रतिषिद्धमेतत् । न च संसर्गस्याखण्डस्यैव भानमिति वक्तुं युक्तम् ; तथा सति प्रतियोगित्वादीनामखण्डानामेव संसर्गत्वेन तत्र धर्मविशेषावच्छिन्नत्वादीनामप्रामाणिकत्वापत्तेः। यद्यपि संसर्गतया भासमानप्रतियोगितानां परस्परभेदसिद्धयर्थं तत्रावच्छेदकभेदोऽवश्यमङ्गीकार्यः, तथापि विशेषस्य वक्तुमशक्यतया घटो नास्तीत्यत्र घटविशेषाभावोऽपि विषयः स्यात् । न चेष्टापत्तिः, घटवत्यपि घटो नास्तीति बुद्धथापत्तेः। एवं सामानाधिकरण्येन अवच्छेदकावच्छेदेन च शानयो(लक्षण्यं न स्यात् । न चावच्छेदकावच्छेदेन बुद्धौ यावद्धर्मिभानं नियतमिति वैलक्षण्यं सूपपादमिति वाच्यम् ; एवमपि विशेश्ये विशेषणमिति ज्ञानाद्विशिष्टवैशिष्टयावगाहिबुद्धलक्षण्यस्य दुरुपपादत्वात् । केचित्तु प्रकारताया विशेषणताव्यापकत्वे मानाभावः । न च प्रकारतासम्बन्धेन ज्ञानं प्रति विषयतासम्बन्धेनोपस्थिो हेतुत्वात् प्रत्यक्षविषये गुणीयत्वे शानलक्षणात्मकसन्निकर्षोपपादनार्थ
For Private And Personal Use Only